________________
प्रथमोऽङ्क |
१३
विनीता - सव्वं एदं सोहणं वसंतदोलारोहणं आरुहंतो स पि
एव्व केवलं ण दिस्सई ।
सख्यः— हेला सु भणिअं ।
सीता - ( लज्जां नाटयंती स्वगतं ) दुल्लहो खु सो कालो जस्सि पिओ जणो दस्सणपहं पावदि जदो सवणेकगोअरे अयोज्झाउरिए हि जणे चिरपरूढको ऊहलदुल्लुलिअं एअं मे हिअअं ।
विनीता — एवं च पुण अहं तक्केमि एदेण सोहणेण वसंतदोलारोहणेण समाराहिओ अइरेण इमिए दंसेदि पिअं वसंतोत्त ।
सख्यः-सैंहि एवं ।
रामः - - अहो वस्त्वन्तरसमवेता अपि गुणा युगपन्मयि संक्रामति । अस्या हि
―――――
नेत्राभ्यां सह विभ्रमव्यतिकरं मद्येन सार्थक्रमं हारेण स्खलितं सहैव भजते कंपं कुचाभ्यां सह । स्रस्तं सामि सहस्तनांशुकदशाप्रांतेन चाकृष्यते चित्रं संप्रति दोलया सह पुनर्दोलायते मे मनः ॥ २५ ॥
विनीता - ( आकर्णे रज्जुमाक्षिपंती उच्चैर्गायति )
जा आरुहइ दाल कंतेवि वसंते । सीसंमि खुजुवईणं सा जोव्वणवईणं ॥ २६ ॥
१ सर्वमेतत् शोभनं वसंतदोलारोहणं आरोहतः स प्रिय एव केवलं न दृश्यते । २ सखि सुष्ठु भणितं । ३ दुर्लभः खलु स कालो यस्मिन् प्रियो जनो दर्शनपथ - प्राप्नोति यतः श्रवणैकगोचरेऽयोध्यापुय्यौ तस्मिन् जने चिरप्ररूढ कुतूहलदुर्ललितं एतन्मे हृदयं । ४ एवं च पुनरहं तर्कयामि एतेन शोभनेन वसंतदोलारोहणेन समाराधितेऽचिरेणैतस्याः दर्शयति प्रियं वसंत इति । ५ सखि एवं । ६ या आरोहृति दोलां कांतेनापि वसंते शीर्षे खलु युवतीनां सा यौवनवतीनां ।