________________
१२
मैथिलीकल्याणे
रामः-(निर्वर्ण्य) अहो रूपानुरूपं वयः वयोनुरूपं लीला लीलानुरूपो विभ्रमो विभ्रमानुरूपं सौष्ठवं । किंच ।
स्वयं सौंदर्यसर्वस्वमसाधारणसुंदरम् ।
अनया लब्धतादात्म्यमात्मानं श्लाघते ध्रुवं ॥ २२॥ विनीता-भट्टेदारिए जइ वसंतदोलारोहणं संमानितुं इच्छसि तदो तुमं वि गाएहि । __ सीता-हला किं मं अतिमेत्तपसंसाए लहू करेसि । होदु ण दाव पिअसहिवअणं लंघेमि दस्सणसमूसु ( इतिपूर्वोक्तमेव गायति )।
रामः-(श्रुत्वा सहर्ष स्वगतं ) हंत मामिवोद्दिश्येदमुक्तं (प्रकाशं ) अये इयमनवद्यवेषानुसरणसरसामंदनिष्यंदमानमधुरसहितानुरागकंदलितकंदपैकेलिर्वसंतविभ्रमभूषा कांभोजिभाषा ( निर्वर्ण्य ) अहो आभिजात्यं गीतस्य । पश्य ।
सालंकारमनिधुराक्षरपदं प्रव्यक्तवर्णक्रम पूर्णागं सलयं कलानियमितं प्रस्पष्टतानश्रुतिः। तत्कालोचितगेयवस्तुरचितां प्रासादकिं च द्रुवा- . माश्रित्यैव हि गीतमेतदधुना गीतं सुकंठ्यानया ॥ २३ ॥ अतिमात्रं च सा प्रसाधिता दोलारोहणेन । अस्या हि ।
मृदुतररणत्कांचीदाम क्वणन्मणिनूपुरं निकषदलकप्रांतक्लाम्यद्विशेषकवर्णकम् । शिथिलकवरीबंधं स्विद्यत्कपोलतलं वपुः श्रियमपि परां दोलारोहच्छलादधिरोहति ॥२४॥ १. भर्तृदारिके यदि वसंतदोलारोहणं संमानयितुमिच्छसि ततस्त्वमपि गायस्व । २ हे सखि किं मामतिमात्रप्रशंसया लघूकरोषि । भवतु न तावत् प्रियसखिवचनं लंघयामि, दर्शनसमुत्सुकः ।