SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्क। www सीता-जे पिअसही भणादि। (सर्वाः प्रविशति) विनीता-(दोलां हस्तेन गृहीत्वा ) ऐसा तुमं पडिवालेइ रअणदोला जाव आरोहदु भट्टदारिआ । सीता-सहि तेण हि आरुहेमि देहि मे हत्थावलंबं । विनीता-जै भट्टिदारिआ आणवेदि । (तथा करात) सीता-(दोलामधिरोहति ) विनीता-(आकर्षणरज्जुमाक्षिपति)। सीता-सहिओ जाव गाअम्म । सख्यः-जं पिअसही भणादि । (सर्वाः गायंति) देस्सणसमूसुओ संपइ पिअं पिआदंसिदसमाअमो पावइ खु कोदुअं । रामः-वयस्य दोलागृहमुपागता न वा जानकीति कथं जानीमः । विदूषकः-इदो ओसरिअ अमुणा पक्खदुवारेण हं पेक्खेमि । ( तथा कृत्वा ) आरूढायेव तत्तहोदी दोलां । रामः-(सहर्षः) तेन हि सफलप्रयत्नाः स्मः । ( उपसृत्य विलोक्य च सोत्कंठं). उत्कंठानां बीजं मनोरथानां परिभ्रमस्थानम् । हृदयस्य समुच्छ्रसितं तदिदं मम सपदि सन्निहितम् ॥२१॥ विदूषकः-एसा स चेअ देवी लच्छित्ति समत्थेमि । १ यत्प्रियसखी भणति। २ एषा त्वां प्रतिपालयति रत्नदोला यावदारोहतु भर्तृदारिका । ३ सखि तेन हि आरोहामि देहि मे हस्तावलंबनं । ४ यद्भर्तृदारिका आज्ञापयति । ५ सख्यः यावदायामः । ६ यत्प्रियसखी भणति । ७ दर्शनसमुत्सुकः संप्रति प्रियां प्रियदर्शितसमागमः प्राप्नोति खलु कौतुकः । ८ इतोवसृत्यामुना पक्षद्वारेणाहं पश्यामि । ९ आरूढैव तत्रभवती दोलाम् । १० एषा स्वयं चैव देवी लक्ष्मीति समर्थयामि।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy