SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे ( अन्यतोऽवलोक्य ) अहो भावानामपि रसांतरमास्कंधमानेडितानि विलसितानि । तथाहि । इयं व्रीडा व्रीडामनुभवति रम्यां मृगशामुदनामुत्कंठां भजति पुनरुत्कंठितमपि । स्वयं लीला लीलांतरमुपगता माद्यति मदो विलासर्विभ्रांतं भवति मदनो जातमदनः ॥ २० ॥ (नेपथ्ये ) वसत्यह विदूषकः--अस्स ओसरणसद्दो सुणिअदि मण्णे आअच्छदि तत्तहोदी सीदा । किं अत्थ काअव्वं । रामः-(विलोक्य ) वयस्य एष इदानीं कृतमकरध्वजपूजोपस्थानो दोलागृहाभिमुखो निर्गच्छति वारविलासिनीजनः तदनुपलक्षिता एव वयं विविक्ते कामदेवगृहाभ्यंतरे स्थास्यामः । विदूषकः-ऍव्वं करेम। . (तथा कुरुतः) (ततः प्रविशति सपरिवारा सीता विनीता च) . विनीताः-ईदो इदो भट्टिदारिआ । (सर्वाः परिकामंति) विनीता-(पुरो निर्दिश्य ) ऐअं खु कअपुप्पोपहारालंकारं रअणचुण्णणिव्वत्तिअवसंतपूआसमुदायारं समंतदो सज्जीकअं दोलाघरअं जाव पविसदु भट्टिदारिआ। १ अपसरत । २ वयस्य अपसरणशब्दः श्रूयते मन्ये आगच्छति तत्रभवती सीता किमत्र कर्तव्यं । ३ एवं कुर्मः । ४. इत इतः भर्तृदारिका । ५ एतत्खलु कृतपुष्पोपहारालंकारं रत्नचूर्णनिर्वर्तितवसंतपूजासमुदाचारं समंततः सज्जीकृत दोलागृहं यावत् प्रविशतु भर्तृदारिका ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy