________________
प्रथमोऽङ्क।
मरुन्मंदाक्षेपोच्चलितमकरांकध्वजपट
मदोद्भेदस्थानं विशति रतिनाथस्य भवनम् ॥ १६ ॥ किं च ।
मृदंग वायंतां मधुरमिदमार्दगिकजनैधुवं गेयं गेयं श्रवणसुभगं गातृभिरपि । सलीलं नर्तक्यो विरचयत संगीतरचनां कृतप्रेक्षोत्सुक्यो भवतु विटसामाजिकजनः ॥ १७॥ रामः-( श्रुत्वा सहर्ष ) वयस्य कामदेवभवनपर्यते वसंतदोलारोहणं करिष्यति विदेहेश्वरदुहितेत्युद्धोष्यते तदिदानीं तस्यैव मार्गमादर्शय येनाहं मैथिलीदर्शनेन चक्षुषी सफलीकरोमि । विदूषकः-जं भवं आणवेदि । इदो इदो
(उभौ परिकामतः) रामः- ( सोत्कंठं) प्रारंभाभिमुखे पयोदसमये या चातकस्योक्तता शीतांशौ निषधाचलांतिकगते हर्षश्चकोरस्य यः । आश्वासो मधुपस्य चूतविटपे यो निष्कसत्कोरके
सीतादर्शनसन्निकर्षजनिता तादृग्ममासौ धृतिः॥ १८॥ विदूषकः-वैअस्स वरं कामदेवं वरअ । रामः- (निर्वर्ण्य ) अहो निरतिशया लक्ष्मीः । इह हिवामेनाप्रवदीनचीनवसनश्लिष्यत्तुलाकोटिना श्लिष्टार्दोरुकबद्धलक्ष्यवपुषा वामेतरेणांघ्रिणा । आमृष्टस्तनपत्रभंगकपिशैः संव्यानकौशेयकैः
संवृण्वंति समंततस्तु वदना धैर्या यशः कामिनाम् ॥१९॥ १ यद्भवानाज्ञापयति । इतः इतः । २ वयस्य वरं कामदेवं वरय ।