________________
मैथिलीकल्याणे
चंचरीअणिणदपणज्जअपर मइउरो सुदूरावडंतसुरहिपरिमलो पिडादयचुण्णवण्णअचित्तिअगअणभित्तिओ सुमहुरसुणिज्जंतमहुपअखिलज्जतगणिआजणगीअपेसलो जुवजणधीरखिलीकरणकबाडओ वेसवाडओ। रामः-वयस्य सम्यगुपलक्षितम् ।
आपादयंतो रतिलंपटानां
यूनाममी वीथिविहारमैत्रीम् । विलासिनीमाल्यविलेपगंधैः
स्त्यायांत सायंतनगंधवाहाः ॥१३॥ ( अग्रतोऽवलोक्य)
प्रत्यंगोद्भिद्यमानस्तनमुकुलकृतप्राभृताध्यैरुरोभिदेतोन्मेषोपहारैः प्रहसितवदनैालनीयैर्वचोभिः । विभ्रांतोत्फुल्लनेत्रा ललितभुजलतामंदविक्षेपलीलाः
कंदर्प दर्पयंत्यो मृशमिह गणिका दारिकाः संचरंति॥१४॥ विदूषकः-अस्स पेक्ख एत्थ महामदविन्भमवेसवहूणं । रामः-(निर्वर्ण्य )
अंसोपांतविलंबिकेशरचनास्विद्यत्कपोलास्फुरद्विबोष्ठ्यो मधुपानमंथरपदन्यासस्वननूपुराः। व्याकीर्णालकवासचूर्णकलुषा व्याघूर्णमानेक्षणा लीना नृत्यरसेन वेशवनिता रथ्यामलंकुर्वते ॥ १५ ॥
(नेपथ्ये ) एषा खलु भर्तृदारिका सीता कामदेवायतनपर्यंतोपवनदोलागृहे वसंतदोलारोहणोपहारेण वसंतमाराधयितुमागमिष्यति । तदिदानीं ।
इतस्तावत्सर्वाः परिजनवृता वेशवनिता
वसंताऱ्याहार्यद्विगुणितवसंतोत्सवगुणाः । १ वयस्य पश्यात्र महामदविभ्रमवेशवधूनाम् ।