________________
प्रथमोऽङ्क।
लिअसहत्थसंवड्डिअपमदवणदुमसंभावणसत्तुरदाए अ गहिअसोमारवासंतिअवेसेण इदो तदो सविन्भमं परिब्मभत्तेण इत्थिआलोएण सह संचारिणा अ पेक्खअजणेण णिरंदिस सोहं उव्वहइ मिहिलाउरी । एवं च पुणो णआणचावलादो गोवालउलमग्गेण विअ परिब्भमतेण मए वअस्सो विणिसरिदो एत्ति पुण वेलें मं अदक्खंतो अपरिचिददेससुलहाए तंदिए मण्णे मयि समण्णू चिटुइ ।ता जाव वअस्सं एव समासिदेमि । (परिक्रम्यावलोक्य च) ऐसो खु वअस्सो असहाओ जं एवं मं पडिवालंतो चिटुइ जाव उपसप्पेमि । ( उपसृत्य ) जेंदु पिअवअस्सो ।
रामः-(दृष्ट्वा साधिक्षेपं ) अहो अत्र भवतोप्यात्मभरेरियतः कालस्य स्मृतिपथे वयमतिवर्तिष्महि ।।
विदूषकः-मा खु में तुमं असूएहि । अहं खु मिहिलाउरि वसंतूसवसिदिसणेण विम्महिओ तुए विणा तं पेक्खिदुं अक्खमो इदो आहिडिओ।
रामः-तेन हि वसंतोत्सवसंवर्धितविभवां मिथिलापुरीमवलोकयंतो वयमपि विलोचने विलोभयामः । विदूषकः-तेण हि गच्छामः । रामः-गच्छाग्रतः। विदूषकः-इदों।
(उभौ परिक्रमतः) विदूषकः-(पुरो निर्दिश्य ) वस्स पेक्ख एसो खु सुहसमंचरंत
१ एष खलु वयस्योऽसहाय यदेवं मां प्रतिपालयन् तिष्ठति यावदुपसमि, । २ जयतु प्रियवयस्यः । ३ सतिरस्कारं । ४ मा खलु मां त्वमसूययाहं खलु मिथिलापुरि वसंतोत्सवश्रीदर्शनेन विस्मितः त्वया विना तो प्रेक्षितुमक्षमः इत आगतः । ५ तेन हि गच्छामः । ६ इतः । ७ वयस्य पश्य एष खलु सुखसमुच्चलचंचरीकनिनदप्रणर्तितपरः मयूरः सुदूरापतत्सुरभिपरिमलः पिष्टातकचूर्णवर्णकचित्रितगगनभित्तिकः । सुमधुरश्रूयमाणमधुपस्खलद्गणिकाजनगीतपेशलो युवजनधैर्यखिलीकरणकवाटको वेशवाटकः ।