________________
मैथिलीकल्याणे
वैदेही सकृदप्यसौ मम दृशो३वाभवत्संनिधौ वित्रंभः क्व च नैव तिष्ठतु मिथः का संकथायाः कथा ।
सा चास्मिमिथिलापुरे वयमितः पूर्व ह्ययोध्यापुरे " श्रुत्वैव स्मरगोचरे विनिपतेत्को नाम मत्तः परः ॥ ११ ॥ इदं च पुनरिहात्याहितं ।
अस्मादृशं दुर्लभदर्शनाया
मुत्कंठमानो जनकात्मजायाम् । मानोपरोधादसमीक्ष्यकारि
कथं न जिह्वेम्यहमात्मनाोप ॥१२॥ . (विचिंत्य ) अलममुना शोचनीयेन ममाद्वितीयस्य मेघोत्कंठासुलभेन संजल्येन । येनैव सह सीतासंदर्शनोपायं विमृश्यन्नेनं संतापभरं लघूकरोमि । स चेदिदानी चिरायात वयस्यगाायणः ।
(ततः प्रविशति विदूषकः) विदूषकः-दाणिं खु मे सुलहदंसणिज्जदाए अओज्झाउरिए एअं मिहिलाउरि पेक्खंतस्स णअणाणं णिव्वदी जादा । विसेसदो उण दाणि वसंतूसवसमाअमकुसुमिदुज्झाणदंसणकोदुएण महणाराहणकोदूहलेण पुप्फावचयकंखाए जलकेलिदोहलेण वसंतदोलारोहणसमूसूअदाए पढममउ
१ संभाषणस्य । २ इदानी खलु मे सुलभदर्शनीयतया अयोध्यापुर्याः एनां मिथिलापुरी पश्यतः नयनानां निवृत्तिर्जाता। विशेषतः पुनरिदानी वसंतोत्सवसमागमकुसुमितोद्यानदर्शनकौतुकेन मदनाराधनकुतूहलेन पुष्पावचयकांक्षया जलकेलिदोहलेन वसंतदोलारोहणसमुत्सुकतया प्रथममुकुलितस्वहस्तसंवर्धितप्रमदवनद्रुमसंभावनसत्वरतया च गृहीतसुकुमारवासंतिकवेषेण इतस्ततः सविभ्रमं परिभ्रमता स्त्रीलोकेन सह संचारिणा च प्रेक्षकजनेन निरतिशयो शोभामुद्वहति मिथिलापुरी । एवं च पुनर्नयनचापल्यात् गोवालकुलमार्गेणैव परिभ्रमता मया वयस्यो विनिसृतः एतावती पुनः वेलं मामपश्यन् अपरिचितदेशसुलभया तंट्या मन्ये मयि समन्युस्तिष्ठति । तस्माद्यावद्वयस्यमेव यास्यामि ।