Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रथमोऽङ्कः।
प्रथमोऽङ्कः।
e.cLYD
(ततः प्रविशति हृष्टो रामः) रामः-अद्य खलु निर्विकल्पं संपूर्णकल्पा नः संकेल्पाः। कुतः। उपनमति मनोरथास्पदं सपदि फलं सुलभेतरं च तत् ।
श्रुतिपथसुखमित्थमुत्थितं यदसुलभश्रवणं वचः श्रुतं ॥७॥ इयं च पुनरिदानीमलब्धदर्शनोत्सवानामप्यस्माकं वैदेहीसमागमाय समुचितदृष्टांतप्रत्ययात् प्रत्याशा प्रादुरभूत् । यथा
दूरस्थमेतन्मिथुनं यदिष्टया
समानमिष्यत्यचिरादवश्यम् । मिथः पृथग्भूतमिदं यथैव
__ मर्थद्वयं संघटमानमास्ते ॥ ८॥ ( सहासं ) केयं कामिनः शैली । यदसौ
श्रुतं यद्वा तद्वा नयति मदनोद्दीपनपदे प्रकृत्या यच्चित्तं गणयति च तत्तापजननम् । यदेवादौ वांछेत्तदनु तदपि द्वेष्टि सहसा
कथं पार्श्वग्राहो न हसति जनः कामुकजनम् ॥९॥ किंचान्यत्से संतापानां कांतानिबंधनं यैव दुर्निवाराणाम् ।
तामेव किलान्विच्छति तेषामिच्छन् प्रतीकारम् ॥ १० ॥ ( सस्मितं ) इत्थं कामिजनमुपालंभमानाः स्वयमपि तत एव निर्वृत्तिमलभमाना वयमेवात्रोदाहरणं । मा तावद्भी: अनीशि खल्वहमुपहासभूमिः प्रेक्षावतां । कुतः
१ निःसंशयं । २ मनोरथाः । ३ जनयति । ४ समीपस्थः ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110