Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 20
________________ मैथिलीकल्याणे वैदेही सकृदप्यसौ मम दृशो३वाभवत्संनिधौ वित्रंभः क्व च नैव तिष्ठतु मिथः का संकथायाः कथा । सा चास्मिमिथिलापुरे वयमितः पूर्व ह्ययोध्यापुरे " श्रुत्वैव स्मरगोचरे विनिपतेत्को नाम मत्तः परः ॥ ११ ॥ इदं च पुनरिहात्याहितं । अस्मादृशं दुर्लभदर्शनाया मुत्कंठमानो जनकात्मजायाम् । मानोपरोधादसमीक्ष्यकारि कथं न जिह्वेम्यहमात्मनाोप ॥१२॥ . (विचिंत्य ) अलममुना शोचनीयेन ममाद्वितीयस्य मेघोत्कंठासुलभेन संजल्येन । येनैव सह सीतासंदर्शनोपायं विमृश्यन्नेनं संतापभरं लघूकरोमि । स चेदिदानी चिरायात वयस्यगाायणः । (ततः प्रविशति विदूषकः) विदूषकः-दाणिं खु मे सुलहदंसणिज्जदाए अओज्झाउरिए एअं मिहिलाउरि पेक्खंतस्स णअणाणं णिव्वदी जादा । विसेसदो उण दाणि वसंतूसवसमाअमकुसुमिदुज्झाणदंसणकोदुएण महणाराहणकोदूहलेण पुप्फावचयकंखाए जलकेलिदोहलेण वसंतदोलारोहणसमूसूअदाए पढममउ १ संभाषणस्य । २ इदानी खलु मे सुलभदर्शनीयतया अयोध्यापुर्याः एनां मिथिलापुरी पश्यतः नयनानां निवृत्तिर्जाता। विशेषतः पुनरिदानी वसंतोत्सवसमागमकुसुमितोद्यानदर्शनकौतुकेन मदनाराधनकुतूहलेन पुष्पावचयकांक्षया जलकेलिदोहलेन वसंतदोलारोहणसमुत्सुकतया प्रथममुकुलितस्वहस्तसंवर्धितप्रमदवनद्रुमसंभावनसत्वरतया च गृहीतसुकुमारवासंतिकवेषेण इतस्ततः सविभ्रमं परिभ्रमता स्त्रीलोकेन सह संचारिणा च प्रेक्षकजनेन निरतिशयो शोभामुद्वहति मिथिलापुरी । एवं च पुनर्नयनचापल्यात् गोवालकुलमार्गेणैव परिभ्रमता मया वयस्यो विनिसृतः एतावती पुनः वेलं मामपश्यन् अपरिचितदेशसुलभया तंट्या मन्ये मयि समन्युस्तिष्ठति । तस्माद्यावद्वयस्यमेव यास्यामि ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110