________________
मैथिलीकल्याणे
मयावताररमणीयमेतदधुना मनांसि हरति प्रमदवनं विकासिसुकुमारचूतकलिकाकलापसुभगम् । नटी-अज्ज सुहु भणिों । अज्ज हि
सो अइरा आरामो कअसोहयंव महुरससुहाए। सीदाए एदाए ओतिण्णवसंतलच्छीए ॥६॥
(नेपथ्ये)
साधु अवितथवादिनी भूयाः । नटी-(श्रुत्वा सविस्मयं ) अत्थ किं एयं ।
सूत्रधारः-आर्ये एष खलु दाशरथिमिथिलेश्वरतनयापरिणयनौपयिकमन्विच्छन्नार्यानिगदितं साधुकारेण प्रतीच्छति ।
नटी-अंज किंवा तस्स अप्पणो अत्थे मए मत्तिअं।
सूत्रधारः-आर्ये त्वया तावत् सोऽचिरात् आरामः कृतशोभयेव मधुरससुखया सीतया अवतीर्णवसंतलक्ष्म्या इति निगदितं । अनेन पुनः सः अपि राजा रामः कृतशोभ एव मधुरससुखया सीतया एतया अवतीर्णवसंतलक्ष्म्या इति गृहीतं ।
नटी-( सविस्मयं ) जुंजइ अहो उभअस्सवि अत्थस्स सदाणं अविसंवादो।
सूत्रधारः-आर्ये इतस्तावदावां नेपथ्यशेषे प्रोत्सहावहे । नटी-जं अज्जो आणवेदि । (इति निष्कांतौ)
इति प्रस्तावना।
१ आर्य सुष्टु भणितं। अद्य हि-सः अचिरात् आरामः कृतशोभयेव मधुरससुखया। सोतया एतया अवतीर्णवसंतलक्ष्म्या २ अत्र किमेतत् । ३ आर्य किं वा तस्यात्मनोऽर्थे मया मंत्रितं । ४ युज्यते अहो उभयस्यापि अर्थस्य शब्दानामविसंवादः । ५ यदार्यः आज्ञापयति।