SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। नटी-कविअण्णओ व खु कव्वपरिस्समाभिण्णो। सूत्रधारः-अगोचरः खल्वयं पृथग्जनस्य । कुतः । नासाग्राहितलोचनो नियमिताशेषंद्रियोपप्लवो निःसंबाधविविक्तवासनिरतो ध्यानकतानः कविः । यत्स्वात्मन्यपरोपदेशविषयं वस्त्वंतरं केवलं स्वेनांत:करणेन पश्यति सुखी तत्केन वा ज्ञायते ॥३॥ किंच अनादृत्य श्रुत्वा चलयति शिरः कश्चन शनैविजिह्माक्षः पश्यन् विहसति च पार्श्वस्थमपरः । प्रसादं सूक्तीनामकृतसुकृतः कृत्रिमबुधः किमीष्टे निर्वेष्टुं दुरधिगमभावा हि कवयः ॥४॥ नटी-अज्ज सुटु भणिों । सूत्रधारः-आर्ये तदिदानी रंगप्रसाधनहेतोरिममेव मकरकेतनकीर्तिप्रसरसुकुमारचंद्रिकाभिरामं मलयपवनशिथिलितविरहिजनधैर्यग्रंथि मदनमागधमधुपगानावमानितमानिनिमानग्रहमभ्यग्रविकसत्सहकारकोरकशिखापरिपूरितकुसुमशरशरधिरंधे संवर्धमानोत्कलिकासहस्रमज्जत्कामिलोकं वर्तमानरमणीयं वसंतसमयमधिकृत्य गीयतां तावत् । नटी–अज्ज तहा। ( गायति ) वासंतिपहिं बहु महु,-धाराणिस्संदबिंदुसिसिरेहिं । मंदाणिल्लेहिं रुणा होसदि दिवो ससिसणाहो ॥५॥ सूत्रधारः-आर्ये सुष्ठु गीतं । विहरति चक्रवाकमिथुनं सुखेन पुलिनां कणेषु सरसां रमयति पद्मिनीषु रमणीं सलीलमिह राजहंसरसिकः । मधुस १ कविजना वा खलु काव्यपरिश्रमाभिज्ञाः । २ आर्य सुष्टु भणितम् । ३ आर्य तथा । ४ वासंतिकैर्बहु मधुधारानिष्पन्नबिंदुशिशिरैः । मंदानिलेराच्छादिता भविष्यंति दिवः शशिसनाथाः।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy