________________
मैथिली कल्याणे
सूत्रधारः—आर्ये साधु लक्षितं अद्य खलु वसंतोत्सवे सबहुमानमाहूयाज्ञापितोऽस्मि विशेषवेदिन्या गृहीतनाट्यशास्त्रोपनिषदा परिषदा, यथा मैथिलीकल्याणदर्शनोत्सुकः सकलोपि सामाजिकजनः, भवानेव तत्र निष्णातः तदिदानीं तदेव तावत् यथावत्प्रयोक्तव्यमिति ।
नटी -- कुदो' खु पेक्खआणं एअंतदो तहिं आसंघा ।
सूत्रधारः - आर्ये किं न जानीषे तत् खलु निखिलशास्त्रतीर्थावगाहपवित्रीकृतधिषणस्य मध्यमलोक धिषणस्य निःशेषनिः पीतधर्मामृतरसायनस्य सरस्वतीविस्मयनीयोपायनस्य भट्टारकगोविंदस्वामिनः सूनुना
श्रीकुमारसत्यवाक्यदेवरवल्लभोदय भूषणानां सुभाषितरत्नभूषणानामनुजेन कवेर्वधंमानस्याग्रजेनांजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विर
चितं हस्तिमल्लेन |
नटी - तेणं हि जुंजइ तदो एव खु अस्सवि तहिं बहुमाणो । सूत्रधारः - को वा न बहु मन्यते । एवं च खल्वसौ श्रीमतीकल्याणप्रभृतीनां कृतीनां कर्त्रा सत्यवाक्येन सूक्तिरसावर्जितचेतसा ज्यायसा कनीयानप्युपश्लोकितः ।
किं वीणागुणरंकृतैः किमथवा सांद्रैर्मधुस्यन्दिभिर्बिभ्राम्यत्सहकारकोरकशिखा कर्णावतंसैरपि । पर्याप्ताः श्रवणोत्सवाय कविता साम्राज्यलक्ष्मीपते सत्यं नस्तव हस्तिमल्लसुभगास्तास्ताः सदा सूक्तयः ॥ २ ॥ नटी - वैसीकरेइख कविअणं सुभासिदं ।
सूत्रधारः - साधूक्तं तथापि सज्जेषु तेषु तेष्वपि कालं परितः परिधेयेषु कविः सूक्तिभिरेवात्मानं काव्यव्यसने विनोदयति ।
१. कुतः खलु प्रेक्षकाणां एकांततः तस्मिन्नासक्तिः । २ तेन हि युज्यते तत एव खलु अस्यापि तस्मिन् बहुमानः । ३ वशीकरोति खलु कविजनं सुभाषितं ।