________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
अन्तरालेऽपि व्यपदिश्यते इति । न च विनाऽऽधारमाधेयम् । तथा परमाणुप्रभृतीनामनन्ताणुस्कन्धानामवश्यमाधारोऽन्वेषणीयः, स एवाकाशः । न च तस्याप्यन्योऽस्त्वाधारः, 'इहाकाश 'मिति व्यपढ़ेशात् । तस्यावरणाऽभावमात्रार्थत्वात् । नहि आवरणाभाव आकाशः, अभावस्थरूपापत्तेः , किन्तु प्रथम् द्रव्यमेव । न च तस्याधारोऽन्यः प्रदीपप्रकाशकतावत स्वपराधारत्वात् । न चान्येषामेवास्तु स्वाधारस्वम् , परिमितानां तेषां तथाभावाभावान । न चेहाकामिति भवति प्रामाणिकोल्लेखः , तद्व्यमाश्रित्य मूर्तानां च नैव भवति कथननापि स्वाधारता । न धर्मादीनां तथाभावो भवतु, तेषामाकाशविझेषावच्छेदकत्वेनैव सिद्धरुपयोगस्य, गतिस्थित्युपग्रहकरा एवैते । सिद्ध एव चाबकाशे लोकविभाजकधर्मादेरुपयोगः । तेषां चावगाहोपष्टम्भकत्वे च सर्वव्यापितायां पुनरवच्छेदकमवलोकनीयमन्यत् । न च बिना भेदं वैचित्र्यमुपपद्यते । न च विभाजक जीवपुरलयोर्गतिस्थितिनियमः । न चाऽलोके नावगाहदात् विद्यते आकाशमिति, यावद्वशापित्वात् तस्य, तत्स्वभावत्वाच्च तस्य सावय च तत , घटपटायवच्छेदकत्वाभावादन्यथा । न च कथं निरंशस्य परमाणोरस्त्येव पडदिगवच्छेदकता ?, स्पर्शनयैब तथावच्छेदकतर यतस्तस्य, न त्वाधारापेक्षया । बटादेरचरछेदकता त्वाधारापेक्षयेवो पस्थाप्यते । अत्र द्विविधत्वेऽप्यस्य लोकालोकरूपत्वेन न सोऽत्र निहरूपयिषितः, आकाशमात्रत्वेनैव प्रस्तुतप्रसङ्गात, परं लोकाकाशत्वं तस्यैव, यत्रावगाहन्ते धर्माधर्मजीवपुद्रलाः । केवल आकाशश्चालोकः । न च नैव स, लोकस्य सविपक्षत्वाच्छुद्धपदत्वेन घटवत् । न च पटादि तत् , तस्य लोकरूपत्वेन तद्भिन्नत्वाभावात् ।
For Private And Personal Use Only