Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
२०३
यद्वा-पूर्वगाथायां परस्वरूपानापत्तिज्ञापनेन साधितमयस्थितत्वं तथापि मा भूत् सावधिकनियतत्वलक्षणमवस्थितत्वमित्यनाद्यपर्यवसानखरूषां नित्यतां साधयितुमनादिनिधनताविशेषणता अनेन तस्य हेत्तोरित्यपि चेति । तथा च परस्वरूपानापत्तावपि अभावाभावात् इत्येवंरूपो हेतुः सम्पन्नः। पर्यायाणां स्वतः पर्यायान्तरप्राप्त्यभावान्नास्ति परस्वरूपापत्तिः, तथापि जायते एवाभावो वाय्बादीनामभाषाभाषेऽपि च जलादिरूपतया परिणतेः न परस्वरूपानापत्तिरिति योग्य एवं विशिष्टो हेतुः। प्राग व्याख्याने तु तथातथानिजस्वभाववृत्तिमत्त्वसाधनाय तदुपन्यासान्न चर्च्यमस्ति किञ्चिदिति ।
यद्यप्यन्योन्याभावस्यास्ति भावात्मकता, तथापि ध्वंसादौ तथात्वाभावात् नाभोवाभावत्वस्य पूर्वप्रोक्ततथातथास्वभावहेतोरविशेषश्चिन्त्यः । 'प्रतीयते हि घटध्वंसो न घटो, घटाभावो न, घटध्वंसः, अन्योऽन्याभावस्य वा घटापेक्षयाऽन्योऽन्याभावान्वितत्वात् पूर्वोक्तः प्रसङ्गः हेतोर्न चिन्त्यतामेति । यद्वा-पूर्व पदार्थस्य भावाभावात्मकत्वाद् भावप्राधान्येन हेतुता, अधुना त्वभावप्राधान्येनेति विज्ञेयं विबुधैः । भावाऽभावोभयात्मकता च भावस्य । तथाऽनङ्गीकारे घटपटाभावयोभिन्नत्वेन स्पष्ट एव घटस्य पटताप्रसङ्गः। अपेक्ष्य चैतमेव पठ्यते परममुनिमिः मिथ्यादृशां बोधस्याज्ञानता ‘सदसतोरविशेषाद्यहच्छोपलब्धेरुन्मत्तवदि 'त्यत्र 'सदसदविसेसणाओ भवहेउ जदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छादिद्विस्स अन्नाणं' ॥१॥ [विशेषा०] इत्यत्र च । इत्यलमतिप्रस्तुतेन ।
यतोऽभावो न जायते इत्यनादिताऽनिधनता वा ? | आये, सत्त्वे सत्यभावाभावान् । अन्त्ये तु पक्षे यथाश्रुतमेव । यस्य यस्य च सत्त्वे
For Private And Personal Use Only

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256