Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
वा एवमुपन्यासः । ब्रह्माण्डायुपगमाच्चान्तरतया शब्दान्तरतया वाऽभ्युपगता एवैते परैः। यद्वा-स्वपश्नमाश्रित्योदितमुदितबोधभानुभिर्भगवद्भिः । इत्यलं प्रसङ्गातिप्रसक्तेन ।
अथ किं न परमपुरुषप्रभवा अस्तिकायाः ? यतः पामरा अपि ब्रुवन्त्येव -यद् यथा परमेश्वरस्य विधातू रुचिः तथाऽभूद् भवति भविष्यति चेति । तत्रान्येषां पामरानुसारितामुपेक्ष्य 'विधिविधान नियतिः स्वभावः , कालो ग्रहा ईश्वर कर्म देवम् । भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य' ॥१॥ इति वचनात् 'कत्थ वि कमाइ हुँति बलियाई 'ति परममुनिवचनात् कर्मादेस्तत्स्वभावत्वे न किञ्चिद् बाध्यते विभो 'रितिवचनाच्च कर्मणो नामान्तरमपेक्ष्य वा तामुपेक्ष्य तात्त्विकपरीक्षया परीक्षयितुमाहु:'पओयणाभावओ'त्ति ।
अत्र प्रथमं तावदवधेयमिदम्-यत् प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता ' प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते' इति 'नाभिसमीक्ष्य यत् कार्य स न कोऽपि यः प्रवर्तते' इति च वचनात् । तथा च प्रेक्षावच्छिरःशेखरस्य भगवतोऽवश्यं विश्वनिर्माणे वाच्यं प्रयोज. नम् । न च वाच्यं सामान्यप्रेक्षावद्विषयकोऽयं नियमः, न चैतावता व्यभिचारिता लक्ष्यमात्रव्यापकत्वनियमाल्लक्षणस्य, लक्ष्यं चात्र सामान्यप्रेक्षावल्लक्षणमिति । यतो यथा भवद्भिः संस्थानविशेषमात्रेण सामान्यकार्यव्याप्तौ सत्यामपि अनिर्णीतसंस्थानस्यापि जगतः संस्थानवत्त्वमभिप्रेत्य तदपेक्षया कर्तृत्वं गीयते, तथा तस्य प्रेक्षावत्त्वेन भाव्यमेव प्रयोजनेन । अस्तु चेदाहुः-प्रयोजनाभावा 'दिति ।
For Private And Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256