Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
तेषामस्तिकायानां धर्मास्तिकायादीनामनादित्वं किं नेति चिन्त्यं ? मध्यस्थेनान्तरात्मना भवता ! नाऽत्र तत्त्वविचारप्रस्ताव आग्रहः श्रेयान् । अत्रास्तिकाया इत्यनादितेति च पूर्ववदेवानुसन्धेयमभिसन्धिमता । न च वाच्यमपरकारणसाकल्य एवं कार्योत्पत्तिः, नहि सद्भावेऽग्नेर्विना दाह्यं दहति तथात्रापीश्वरस्य यदि भवतीतरकारणसंयोगस्तदैव स करोति व्याख्यातगुणो विश्वम् । न चैवमनादिः सम्पत्तिरस्यैषां वेति चेत् । स्पष्टवाकर्तृता तस्यैवमितरकारणप्रेरणया प्रवर्त्तनात् । नहि अग्निरष्युष्णतालक्षणं स्वभावं करोत्यनैयत्येन, दाहश्व यदि स्वभावभूतः तस्य भवेत् किमिति स्वमेव न दह्यात् । तथा च यथनैयत्येन विश्वविधानात् न विश्वेश्वरस्यैष स्वभावः, स्वीक्रियमाणे वाsन्यस्मिन् कारणे पूर्वोक्तदोषधौव्यमेव ।
,
२३१
अथोच्येत विश्वेश्वरस्य तथाभूत एवं स्वभावो यदुत - अनयत्येन करोति विश्वमितरकारणनैरपेक्ष्येणेत्याशङ्कयाहुः
न सदेव भावो को इह हेऊ तहा सहावत्तं । हंता भावगयमिणं को दोसो तस्सहावत्तं
॥७॥
सदैव च - नित्यमेव च अस्य - समग्रलोकप्रतिपन्नत्वेनाध्यक्षसिद्विवर्तितया वा वादिप्रवादिप्रत्यक्षस्य लोकस्य, भावो - भवनभावः सत्तेत्यर्थः, नास्तीहास्मिन् निर्णयेऽभ्युपगमे वा, कः इति प्रभे, लोकस्य यथोक्तोत्पादादिप्रसाधको हेतुः प्रतिबद्धः पदार्थः कारणं वा । यद्वा- नहि अतत्स्वभावः स यः पूर्वं प्रतिपादितः प्रयोजनाद्यभावेऽपि विश्वनिर्माणरूपो यतः स्याद् । यदि तथाविध एव तस्य स्वभावः किमित्यधुना न विधत्ते 'नित्यं सत्त्वमसत्त्वं वाऽद्देता
For Private And Personal Use Only

Page Navigation
1 ... 252 253 254 255 256