Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
द्रव्ये पत्रे ' इति सत्त्वेऽपि न विरोधः । दल्यतेऽन्तःप्रवेशेनाभेदेनास्थानादित्यौणादिके अप्रत्ययेऽभीष्टरूपसिद्धेः । यद्वा-दलयति-स्वाधी नान् विदधाति गुणान् पर्यायाँश्चेति दलं- द्रव्यं 'लिहादेरच ' इत्यचि रूपसिद्धिः । तस्याऽभावादविद्यमानता, लोकेऽपि सिद्धं हि एतद् यदुत' विनाssधारं च नाधेयं ' तथा 'सत्यां भित्तौ चित्रकार्यं चतुरस्यापि शोभते ' इत्यादि । ततश्च परमेश्वरस्य सृष्टिविधाने यदि न स्याद् दलमेव, कथमसौ विदध्यात् किञ्चिदपि ? | यदि चोपेयते द्रव्यसत्ताssपन्नैवाऽनादिता । न च द्रव्यं पर्यायरहितम्, काञ्चिदप्यवस्थामा - स्थायैव द्रव्यस्यावस्थाननियमात् । परमन्यदेतत् ।
"
यदि च जीवादयः परमाण्वादयश्च नाभ्युपगम्यन्ते, कि कुर्यात् परमैश्वर्यसम्पन्नोऽपि परमेश्वरः ? | यदि चाभ्युपगम्यते विनापि दलं विदध्यात् सर्वमिति, स्पष्टो व्याप्तिविरोधः द्रव्यस्यैव तथातथाविधानदर्शनाद् । विशेषत्वे च तस्याऽस्तु लोकसंस्थानस्यैव कल्पितस्य घटादिसंस्थानाद् वैशिष्टयं येनादृष्ट विरोधिनी च न प्रसज्येत कल्पना | दलविधाने च पूर्वं तावन्न किमपि प्रमाणं, दलस्य क्वचिदपि विधानादर्शनेन तस्यानादिताया अवश्यमभ्युपगन्तव्यत्वात् । यद्वानैव जीवदयो विधातुं योग्याः कुतो ? दलाभावात् तद्योग्योपादानकारणाभावादित्यर्थः । असति चोपादाने, नैव भवति कार्यं किञ्चिदपि । सति चोपादानसद्भावाङ्गीकारे, पारम्पर्येणापन्नैवाऽनादिता लोकस्य विभिन्नस्वभावानामुपादानानां लोकवाच्यतानपायात् ।
"
२२९
अनेन च ' सोऽद्भ्यः पुरुषं समुद्धृत्यामूर्छयत् तथा रथिं पाण श्वासृजत् तथाऽहङ्कारात् समजायते' त्यादिकाः श्रुतिप्रवादा निरस्ताः, निरस्ताव यमनाद्या अपि, परमेश्वरेच्छया बभूव पृथिव्याऽऽदीत्या
For Private And Personal Use Only

Page Navigation
1 ... 250 251 252 253 254 255 256