Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
लोकविंशिका दिवादिनः, तैरुपादानकारणोनङ्गीकारात् । अङ्गीकारे च स्पष्टैव तस्येश्वरस्येव-स्वाभाविकत्वादनादिता । कुम्भकारवद् विशेषाकृतिमत्तापादनमपीश्वरस्य प्रयोजनाभावादित्यनेन पूर्व प्रतिक्षिप्तमेव । उच्यते च परैरपि-सतोऽसतो भवनं न युक्तमिति ‘नासतो जायते भाव ' इत्यादिना, तथा कथमसतः सज्जायतेति 'सत्त्वेव सौम्येदमन आसीदेकमेवाद्वितीय 'मित्यादिना च । __ यदि चोच्येत स्वभाव एवैतादृश ईश्वरस्य यद्-विना प्रयोजनं दलं च विधत्तेऽसौ लोकमिति । तत्राऽऽहुः-' तत्तस्सहावयाए तस्स व तेसिं अणाइत्तं 'ति । 'तत्तत्स्वभावतायां' स स स्वभावो यस्य विहाय कर्मादिहेतून् वैचित्र्यकरणम, आदिः सर्गः करणीयः , स्फुलिङ्गा इव वह्ने निष्काशनीया जीवात्मानः, स्वभावात् पूर्वोक्तद्वयं वा प्रयोजनदलाभावेऽपि निर्माणं लोकस्येति विविधस्वभावाङ्गीकारस्यावश्यकत्वात्तत्तदिति द्विनिर्देशः स्वभावनिर्देशश्च, प्रयोजनादौ पूर्वमेव निरुत्तरीभावापन्नत्वाद् वादिनस्तत्तत्स्वभावस्य भावस्तत्ता तस्यां स्वीक्रियमाणायाम् । यद्वा-हेतौ पञ्चमीयं व्याख्येया। तथा च नेदमघटमानकं, विना प्रयोजनं दलादि वा परमेश्वरम्य लोकविधान, तत्तत्स्वभावत्वात्तस्य । ___ ननु स्वीकरोति तथा चेद् वादी किं स्याद् दूषणं ?, स्वभावे पर्सनु. योगाभाव इति सर्ववादिपर्षत्संमतत्वात् । सत्यं, मा त्वरिष्ठाः, आहुरेतस्मिन् पक्षेऽपि यत् 'तेसिं अणाइत्त'मिति कथं ?, यतः यो यत्स्वभावः स कुरुते एव स्वकार्यम् । यथाऽग्निरुष्णतास्वभावः । तत्तत् स्वभावश्चाभ्युपगम्यते परैरीश्वरस्तथा । यदीश्वरोऽनादिः, तर्हि प्राप्तवाडस्तिकायानामप्यनादिसा । एतदेवाहुः-तस्व-भवदमिमतस्येश्वरस्येव
For Private And Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256