Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका ૨૭ दौर्गत्यादि दुःखम् , यदि तदपि तत्कृतम् , सत्या कृपालुता यामपे. क्ष्योच्यतेऽन्यत्र भवसम्भवदुःखकर निष्कारणवैरिणं सदा जगतः । कस्ते ब्रजेच्छरण्यं सूरिः श्रेयोर्थमतिपापम् ' ॥ तथा 'कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ।। दुःखदौर्गत्यदुयोंनि-जन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता?' इत्यादि । कथं चासौ न विधत्ते सर्वानपि दयापात्राणि ? । न च तस्य सामर्थ्य नास्ति तादृशं, कर्मापेक्षत्वे कैव कृपा ? । नहि अधमर्णो ददाति ऋणमिति वितनुते उत्तमयोपकारम् । यच्च संसारिणा कृतं सुकृतं, जात एवोत्तमोंsन्यथा कर्मणो वैफल्यप्रसङ्ग इत्यादि पूर्वमावेदितमेव । यदि चोच्यतेआदौ सर्वे विहिताः समाना जीवाः , पश्चात्ते स्वस्वकर्मानुसारेणान्यथाभावमापन्नाः । तत्रापि प्रथमं तावदापन्नेश्वरस्याशक्तिः । अन्यथा कथमसन्मार्ग प्रवर्त्तयितुं ददाति । नहि सुशिक्षकोऽचिन्त्यशक्तियुक्तः सन् विद्यार्थिनोऽसन्मार्गे ददाति प्रवर्त्तयितुं, प्रवर्तन्ते च ते यत्तत्र, न शिक्षकस्य समप्रसामर्थ्यान्वितता शक्यते वक्तुमस्तीति । सत्यां च शक्तौ वैचित्र्यकारणं स्पष्टमेवान्यत् किञ्चिद्वाच्यम् । यत उच्यते 'तुल्ये सति सामर्थे किं न कृतो वित्तसंयुतो लोकः । येन कृतो बहुदुःखो जन्मजरामृत्युपथि लोकः ॥ इति । यदि चेच्छा तस्य तादृशीति आपन्नैव प्रयोजनशून्यता । इच्छापि चाऽन्येषां दुःखोकरणरूपा नाहतीश्वरस्य । इच्छासद्भावे च कथं कृतार्थता वीतरागता च भानूदयेनेव चन्द्रप्रभान्धकारतत्यो धिरोहेता विरोधम् ? । यदि स्वभाव एवैष तस्य, तर्हि स्पष्ट एष प्रयोजनाभावः । निराकरिष्यते च सूरिभिः सोऽपि यथापि प्रन्थान्तरे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256