Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ लोकविशिका ननु कथमेतत् सङ्गच्छते ? सङ्गतौ चास्य कथं भवतां वीतरागाराधनं तु सुदूरापास्तम् , तस्य कदापि प्रसन्नीभावाभावात् , भावे वा देवत्वलोपस्वीकारात् इति चेत् । सत्यम् , यदि हि स्वाभाविक कर्तृत्वमिष्येत, तदेव तु न, किन्तु आराधकभावापेक्षयैव तत् ! दृष्टश्वेष न्यायो वह्निमन्त्रादौ । न हि वह्नयादयो रक्ता अपनयन्ति शीतं, द्विष्टा वा कुर्वन्ति दाहं, किन्तु स्वभाव एवैष तेषाम् । एवमन्त्रापि । न च नृपादयोऽप्यरक्ताः प्रयच्छन्ति फलम् । वर्ण्यते चात एव नीतिप्रधाने चाणाक्यादौ राज्ञामनुवर्तनाय विचित्रो विधिः। . किश्च-यदि कोऽपि जीवहिंसादिकं महापातकं करोति तस्य सेवां तस्य भजनेनैवापैति पापं न वा ?। आये, स्पष्टोऽन्यायिता तस्यौत्कोचिकाधिकारिवत् । प्रान्त्ये, न तर्हि भजनस्य साफल्यम् । तन्न भजनं कारणतयाऽऽलम्बयितुं युक्तं सुखीकरणे जीवानाम् । यदि चाऽऽश्रीयते सुकृतमिति द्वितीयपक्षः, तदा पूर्वप्रतिपादितन्यायेन तस्यैव विधायकत्वं सुखस्य । स्वतन्त्रो हि कर्ता स्यात् , सुखविधौ च स्वतन्त्रं च कमैव प्राप्तम् , तेनैवेश्वरो प्रेयते संसारिणां सुखविधौ । तन्न सुखविधानप्रयोजनमपि सङ्गच्छते तस्य । न च वाच्यं संसारिजन्तुविषयिका करुणा प्रवर्त्तयति तमिति कृपारूपप्रयोजनवत्त्वात् तस्य न प्रयोजनाभावः सिद्ध 'इत्याश्रयासिद्ध'इत्यसिद्धो हेतुरिति । का नाम कृपा ? यदि दुःखभारोदितव्यथापरिकरितान्तरात्मनां दुःखप्रजिही ति, तदादौ दुःखस्य स्वाभाविकत्वप्राप्ते 'भवगतिमूला शरीरनिवृत्तिः। देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे' इति नियमादनुभवाच्च शरीरादेः कर्मफलस्य प्राप्ता स्वयं सत्ता। तथा च किमीश्वरेण कार्य कार्यम् । यदि च कृपैव कार्यम् , तर्हि कथं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256