Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकबिशिका
२२५ तु समूलकाषंकषणमीश्वरप्रयोजनस्य । कथमिति चेद् ? विचारयत स्वयं तेषां व्याधादीनामीश्वरप्रेरणयैव यधादीन् विदधतां कथं यज्ञादिविधायिनामिव स्यात् पापलेशः ? । भावे च तस्य चालनीन्यायेन कस्यापि पापात्मत्वाभावात् केभ्यो योग्यमर्पणं दुःखस्य, अनर्पणे प्राप्ते च तस्य किं हि प्रयोजनं भवदभिमतेश्वरस्य भवदभिमतरीत्या, कश्च जगत्यामप्युपकार्यपकारिव्यवहारः, सर्वस्यैव परमेश्वरविहितत्वात् । प्रेरकत्वे च तस्य स्पष्ट एव तेषामप्यनपायीभावः । तथा च पूर्वोक्तः फलाभावस्तदवस्थ एव । ततश्च कैवेश्वरकर्तृता ?।
केचित्त्वाहुः-जगजन्तूनां सुखोत्पादाय प्रवर्तते स, तथा च कृपार्थता तत्प्रवृत्तौ, न च सा दोषास्पदमिति । तदप्यनालोचितमेव रमणीयम् । यतः केषाञ्चित्तद्दाने कथं तस्य स्वरूपावस्थां लभतेऽरक्तद्विष्टता ?, दुःखस्य च तथाभावे स्वाभाविकत्वस्वीकारावश्यकतया को विशेषो ? यन्न स्यात् सुखमपि स्वाभाविकम् ।
___यच्चोच्यते-स्वाराद्धनृपोत्तमवत् सेवकेभ्यो यथार्हसुखदानप्रवृत्त ईश्वरो न रागादिदोषभाक् । तदप्यचार्वेव । यतः सोऽपि किं यथातथैव प्रवर्तते, किञ्चिदालम्ब्य वा कारणम् । आये, दृष्टान्तवैषम्यम् । नृपोत्तमो हि न यथा तथा प्रवर्त्तते, किन्त्वोराधनानिपुणतादर्शनजातपीवरान्तःकरणतया । अन्त्ये च, किं तद् यदालम्ब्य विधत्तेऽसौ सुखिनो जनान् , भजनं सुकृतं वेति विकल्पयुगली अवतरति । आये, स्पष्टैव नृपोत्तमादिवद् रक्तद्विष्टताप्रसक्तिः । नहि अरक्तो दातुं प्रभवति फलं 'नाप्रसन्नात् फलं प्राप्य 'मितिनियमातू ।
For Private And Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256