Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका २२३ कर्तृत्ववादगताम् । यतः किं न स्यादेवं सति दुर्जनो व्याधो मात्स्यिको वा वैराग्यकारणं सताम् । तथा च किं तेऽपि न स्युर्वैराग्यकारणतया सज्जनताभाजः ?। यद्वा-बहूनां दुःखभावादनल्पाशुभध्यानापादितदुर्गदुर्गतिबन्धानामल्पतमानामेव वैराग्यभावात् कथं नाऽऽयव्ययविचारशून्यता भवदभिमतेश्वरस्य । किञ्च-यदि वैराग्याय सतां करोतीतरान् दुःखिनः, का हि श्रेष्ठता तस्य वक्तुं शक्येत साक्षरपर्षदि। किञ्च-यदि वैराग्योत्पादनमपि तस्य प्रयोजनभूतं स्यात् , तर्हि किमिति न करोति सर्वांस्तद्वतः ?, किं वा न पर्याप्त जन्मजरामरणैः स्वाभाविकैः ? यत् नवीननवीनतरानिष्टसम्प्रयोगेष्टवियोगरोगादि करोति । किञ्च-नेश्वरस्य तत्सामर्थ्यम् ? , यन्न करोति जन्मतो वैराग्यवतो जनान् सर्वान् । यतो न कोऽपि विध्यात् पापमेव, यथा दुःखभावो मोहमदिरामत्तता च न कस्यापि भवेद् , येन तेषां वैराग्याय जनानां स्याद्युक्तं दुःखीकरणम् । ___ अन्यच्च-कथं दुःखीकरणे पापिनामितरेषां च सर्वेषां वैराग्यभावो न सम्पद्यते । तथा च स्पष्टेवेश्वरस्य न प्रेक्षापूर्वकारिता, यन्न सिद्धमिष्टं तस्य । किञ्च-यदि दुःखीकरणं वैराग्योत्पादनप्रयोजनकममिमन्यते, तर्हि स्पष्टं सुखीकरणं निष्प्रयोजनम् । तथा च न तदीश्वरविहितम् । ततश्च स्वतः समुद्भूतं सुखित्वं जन्तूनामिति । प्रशस्यतमा भवदीश्वरस्येवरता ?, सत्यापिता च भवद्भिरपि पामरानुसूतिरनूनवादृता । यतः पामराः प्राणिन एवमेव व्यवहरन्ति यदुत-ऋद्धयादौ प्राप्ते विवाहादिके वा व्यवहारे सुखकारणे वदन्ति-अम्मद्भिर्विहि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256