Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२२ Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका भवत्यात्मनस्तु कामाय पतिः प्रियो भवति, यावन्न वा अरे ! देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति, न वा अरे ! भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति, न वा अरे ! सर्वस्य कामाय सधैं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति, आत्मा वा अरे ! दृष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे ! दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदित ' [ बृहदा ० ] मिति । अत्रात्मविचारस्य परमश्रेयोभूततया निर्दिष्टत्वाद् आः भवदभिमतेश्वरस्याऽपूर्व चातुरीयद् विहायात्मरमणतां क्रीडाप्रियता जाता । यच्चोच्यते - सरागता न तस्य भवति, क्रीडावाँश्च भवतीश्वर इति तु माता मे वन्ध्येतिवद् वदतो व्याघातकं गगनकुसुमसौरभ्य-वन्ध्यास्तनन्धयाङ्गोपाङ्गप्राशस्त्य- शशशृङ्गशोभातिशय-मण्डूकजटाजेतृत्ववर्णनमिव निरन्तर सुहृत्प्रत्येयम् । वीतरागता हि यस्य भवत्यवितथा, स कथं क्रीडाप्रियो भवति, क्रीडाया रागनिबन्धनत्वनियमात् । न च प्राणिनां सुखदुःखोभयदानं क्रीडायै सज्जनानाम्, कथमन्यथा जगत्यपि स्यात् कोऽपि कस्याध्यपकारी । यतः सर्वो हि जन्तुः सर्वस्य स्वस्वकर्मानुसार्येव विधत्ते दुःखं, दत्ते च दुःखं हसति नापेक्षते वा यः, स नार्हति सज्जनवर्षदि प्रवेशमपि । न च भवदभिमत ईश्वरः करोति पश्चात्तापमादितोऽज्ञानेन विहितस्याज्ञानिन एव तस्य युक्तत्वात् । अत एवोक्तं चौलुक्यचूडा चन्द्राश्चितचरणैः - ' क्रीडया चेत् प्रवर्तेत रागवान् स्यात् कुमारवत्' इत्यादि । तन्न क्रीडा भवति तस्य प्रयोजनमिति युक्तमुक्तं 'प्रयोजनाऽभावात्' । यच्चोक्तम्- 'दुःखबहुलीभावे 'त्यादि । तदपि कदाग्रह निबिडतामेव व्यक्ति वक्तुः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256