Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
अत्रेदं तत्त्वम्- प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजन 'मितिनियमात् प्रवृत्तिमात्रस्य च सप्रयोजनताप्राप्तौ सुप्तमूर्छितप्रवृत्तौ स्याद् व्यभिचार इति यदर्थित्वादित्यस्य साभिप्रायताव्याख्यानेन प्रेक्षावत्प्रवृत्तेः सफलत्वनियमेन 'फलानुमेयाः प्रारम्भा मतिमता'मिति नियम्यते, प्रवृत्तिमान् प्रेक्षावाँश्च भगवानिति । स्वीकार्य तस्य प्रयोजनवत्ता। सा च तस्य नास्त्येव, तथास्वीकारे कृतकृत्यत्वबाधः सम्पद्यमानो न निवारयितुं शक्यते । यद्वा-प्रयोजनमभीष्टम् , तच्च सरागस्यैव भवभृतामेव वा । न चायं तथेति प्रयोजनाभावसिद्धिः । सिद्धे च तस्मिन् क्रिमिव तस्य भवेत् कर्तता। अत एव चोच्यते'अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता। न च प्रयोजनं किञ्चिदिति ।
अनेनैतदपि प्रतिक्षिप्तम्-यथा वणिकपुत्रस्य प्रयोजनाभावेऽपि वस्य भवत्येव व्यवहारादौ प्रवृत्तिः, तथाऽत्र भवन्ती केन निरुध्येतेति । तस्य हि श्रेष्ठिनो नाथक्त्तास्ति, तथाऽस्य नहि येन प्रवर्तत । श्रेष्ठिनस्तु स्वातन्त्र्यादस्ति सा तु सप्रयोजनेत्यापन्नमकृतकृत्यत्वमवीतरागत्वम् । तत एवोक्तं 'स्वातन्त्र्यान्न पराज्ञया' इति । अत्र हि नकारस्य डमरुकमणिन्यायेनोमयत्र सम्बन्धः । प्रवृत्तिरिति तु प्रकृतम् । कर्मणा जीवात्मकृतेनेश्वरस्य परवत्ता चेद्, वरमीश्वरस्यैश्वर्यमन्यदीयसुकृतदुष्कृते, न स्वस्य, यत्परवत्तापादानम् ।
अनेनैतदपि निरस्तं यत्-संसार्यदृष्टेन परमेश्वरस्य शरीरग्रहणमिति । सति हि सम्बन्धेऽस्य स्याच्छरीरग्रहणसम्भवात् । तथा चादृष्टसम्बद्धत्वाद् व्याहन्यते ईश्वरत्वं कृतकृत्यत्वं कर्मापेतत्वं च । तथास्वीकारे तु किमपराद्धं संसारिभिः, यत्ते स्वाछेन तत्तन्न कुर्वीरनिति स्वीक्रियते । ननु च किं लालप्यते. परमेश्वरमहिमापलापिभि
For Private And Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256