Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका नो परमपुरिसपहवा पओयणाभावओ दलाभावा । नत्तस्सहावयाए तस्स व तेसिं अणाइतं ॥५॥ 'नो 'त्ति निषेधे ' अमानोनाः प्रतिषेधे ' इति वचनात् । न च पर्यायशब्देषु लाघवगौरवचर्चेति नियमात् न नग्नोशब्दयोश्चर्चा | किमित्याहुः- परमपुरिसपहव 'त्ति । परा-उत्कृष्टा मा लक्ष्मीनिा. दिका शोभा वा यस्येति परमः ‘गोश्वान्ते' [ २।४।९६ ] इति हस्वः । यद्वा-पृश् पालनपूरणयो' रिति क्रयादिको धातुः , सस्मात् मृप्रथिचरिकडिकदेरम [३४७] इत्यौणादिकेऽमे परम इति । तथा च पालयति भक्तान् जगन्ति वा, पूरयति वा स्वात्मना विश्वं सर्वव्यापकत्वादिति परमः-उत्कृष्टः, पुरुषः परमपुरुषः । परमपुरुषयोयभिचारित्वादुत्कृष्टपदार्थान्तरसंसार्यात्मनो विशेषगविशेष्यभावः । सम्भवति व्यभिचारे सम्भवे च विशेषणस्यार्थवत्ता । तत्र विशेषणस्यमन्यत्र विद्यमानत्वे सम्भव उच्यते, विशेष्ये च विशेषणाभावे व्यभिचारः , अत्र चोभयमप्यस्तीति भाव्यमेव विशिष्टेन । पुरि शयनाद्वा पुरुषः, पृषोदरादित्वाद् । व्युत्पत्तिमात्रं परमेतत् जगदेव वा पू:, अन्यथा परमेश्वरस्य शरीरबहाभावान्न स्यादेव पुरुषता । यद्वा-आत्मवाचक एवाऽयं पुरुषशब्दः 'पुरुषस्त्वात्मनि नरे पुन्नागे' [अनेकार्थ सङ्ग्रहे] इति वचनात् । तथा च परमः पुरुषआत्मा परमपुरुषः । अत्र चैकपदव्यभिचारेऽपि विशेषणम् । आत्मा च परमतेऽपि पठ्यते एव विविधो ‘जीवेनात्मने 'ति ‘परमात्मे 'त्यादिनिर्देशात् । स्वमते तु बहिरात्मान्तरात्मभेदभिन्नत्वेऽपि नात्र परमसन्देन अन्यत्रेय बाह्यान्तरात्मनोर्व्यवच्छेदः , परकीयमतेनैव परमपुरुषव्याख्यानान् । तत एव च पूर्व पाल यति पुरयतीत्यादिव्युत्प For Private And Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256