Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
२१५ ष्टितं प्रधानस्य ' [ साङ्ख्य० ] इति सूत्रयुगलेन प्रधानस्य विश्वविधायकत्वाभ्युपगमस्तेषां, तान् प्रतीदमाहुराचार्याः
यद् यदि नित्या प्रकृतिः किं नार्वाक् पुरा वा न विदधे सृष्टिं सा ? , अनपेक्षितकारणस्य नित्यस्य कारणस्य कार्यविधानावश्यकत्वात् । न च सृष्टिसर्जने प्रकृतेरपेक्षाऽपरस्यात्मनः , अकर्तृत्वाभ्युपगमाद् बुद्धयादीनां च कार्यरूपत्वात् सत्यां तस्यां कार्यस्यैवानुत्पादाद् , अनियतं इष्यते च जगत औत्पत्तिकत्वम् , तदिदमितो दुस्तटीव्याघ्रन्यायमापन्ना भवन्त इत्युषः सूरीनाहुः-साङ्ख्या निरीश्वराः, सेश्वरम्य तु ईश्वरवादनिराकरिष्यमाणत्वेनैव निराकृतिभावात् । यत् प्रकृतिरेव तथास्वभावा यत् तदोत्पादयति जगन्नान्यदेति ब्रुवतः साङ्ख्यानाहुः पूज्या:
यत् यदि प्रकृतिनित्यस्वरूपिका, उत्पादयति च जगत् कदाचिदेव । तथा च स्पष्टैव तस्या अनित्यता, कर्तत्वस्वभावहानेः । स्वभावव्यये हि पदार्थान्तरतापत्तिरेव, अन्यथा कपालीभावापन्नस्यापि घटस्य जलाहरणाद्यनुपयोगितायामपि स्यात् स्वीकार्या सत्ता प्रत्यक्षविरुद्धाभ्युपगमविरुद्धा च इत्यभिप्रेत्य सूरीणामभिप्रायं व्याख्यानयन्त्येवम्अत्र लोकाऽनादित्वप्रकरणे, तुः पूर्वपक्षोपस्थापनार्थः । प्रकृत्या इत्यध्याहार्यम् , तथा स्वभावत्वकल्पनयापि-कदाचिदेवोत्पादयति जगदित्येवंभूतस्वभावकल्पनयापि, अपिना पूर्वप्रतिपादितदुस्तटीव्याघ्रन्यायस्मारणम् । अभिमतमेषां साङ्ख्यानां जगत आदिमत्वम् अयुक्तम् , अवधारणफलत्वाद्वाक्यस्यायुक्तमेवेत्यर्थः ।
क्रुतः ? इत्याहुः-पूर्वमभावात् । यदा हि भवन्त उदीरयन्ति जगतः प्रारम्भावस्था, ततः किमिति प्रकृत्या न चक्रे तत् । नहि
For Private And Personal Use Only

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256