Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
लोकविंशिका
राशिवत् समुदिताः तथा व्यपदिश्यन्ते । तथा 'पंचत्थिकायमइओ' इत्यत्र 'अस्मिन् ' इत्यनेन मयटो विधानेऽपि न क्षतिः । मा भूदेकान्तनित्यताऽऽग्रह इत्याहु :- तहातहापरिणइसहावा' इति ।
ननु च प्रागेव प्रतिपादितं 'वर्तन्ते कार्यकारणभावेने'त्यनेन पर्यायानित्यत्वप्रतिपादनेनैव उत्पादादित्रययुक्तत्वं, पुनः किमनेनेति चेत् । सत्यम् , प्रतिपादितं तदेवोपसंहियते सूरिभिरत्र । ननु समुदितं संहियतां अनादि तथा तथा परिणतिस्वभावा इति । सत्यम् , तथै वास्ति परामर्शः , केवलं बन्धानुलोम्येन निर्देष्टोऽनया रीत्या, परमादि ममिप्रेयतां दुर्नयानां शिक्षायै निबद्धत्वादेतत्प्रकरणस्य, अनादितायाः स्पष्टः परामर्शः, पातनिका ज्ञापितेष्टसिद्धये चान्यस्येति सुधीभिरूह्यम् । परे तु द्विविधा हि पर्यायाः स्वभावविभावभेदेन । तत्र प्राग ‘वटुंति कजकारणभावेणे 'त्यनेन विभावपर्यायप्रतिपादनद्वारा नित्यतो ज्ञापिता । अत्र तु स्वभावपर्यायद्वारा सैव प्रतिपादितेति न पौनरुक्त्यम् । स्वभावपर्याययोश्च सर्वथा भेदाभावान्नोपक्रान्तेत्यस्मिन्नुपसंहारोऽन्यस्यायुक्तः। यद्वा-स्थूलधीगम्यकार्यकारणत्वादिकान् पर्यायानाख्याय प्रागधुना तत्स्वभावपर्यायान् सूक्ष्मतरधीगम्यानुद्दिशन्ति सूरयः । प्रथमे वा केवला यौक्तिका अधिकृताः । अत्र तु श्राद्धिका इति भेदेनोपन्यासः । भवति चाधिकारिपार्थक्येन भिन्नत्वं व्याख्यानस्य । तत एव च ' निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानत' इत्यभिगमप्रकारानुपाख्याय तार्किकान् , 'सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च' इत्यनेन श्राद्धान् प्रत्युपाख्यायि सूरिभिस्तत्त्वार्थसारसूत्रे तत्त्वार्थे पूज्यैरपि । 'तत्प्रकृतिदेवताधिमुक्तिज्ञान'मित्यादायभिमतमेवेति नात्रैवमुपन्यासो दोषायेत्यलं प्रसङ्गेन ।
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256