Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका २०७ तथा च अप्रकृतपरित्यागेन प्रकृतमेव संहरणीयमुपसंहार इति नियमानुरोधाद् अनादय इत्येव । ____ अपरे तु 'एए अणाइनिहणा' इत्यत्र निधनाभावग्रहः । 'नवि य अभावो जायइ' इत्यत्र निधनाभावसाधनं च वस्तुस्वरूपसिद्धयर्थमप्रकृतमपि प्रकृतानुप्रकृतं प्रतिपादितम् , अनुपक्रान्तमपि महान्तो हि परोपकारमात्रप्रवणान्तःकरणतया लाघवार्थमुपयोग्यप्रकृतं प्रकृतानुप्रकृतं वा प्रतिपादयन्त्येव । अत व्याख्याविधानप्रस्तावे 'तइओ निरवसेसो' इत्यनेन नियुक्तिप्रतिपादितप्रकृताद्युपगमेऽपि तृतीयोऽनुयोगविधिय॑धायि व्याख्याप्रकारधुराधौरेयः श्रीमद्भिः। क एवंविधा? इत्याहु:--' एते' इति । ननु च लोकस्य प्रकृतत्वात् : लोगाणादित्तमेवे 'त्यनेन 'अणाइमं वट्टए इमो लोगो' इत्यनेन च कथमेते इति निर्देशः , एत इत्यनेन तु पश्चानामस्तिकायानामेवानादित्वसिद्धिपरामर्श इति चेत् । सत्यम् , मा विस्मार्षीः ‘पंचत्थिकायमइओ 'त्ति पूर्वमेव प्रतिपादितम् । सत्यम् , परं कथमेवं भिन्ननिर्देश ? इति चेद् , अवयवावयविनोः कथञ्चिदनन्यत्वज्ञापनाय । यथाहि-अन्येषां विनष्टा कपालयुगल्युत्पादयति घटम् , नैवमत्र । किन्तु सैव तथा परिणमते, यतो व्यपदिश्यते च-. 'सेयं कपालयुगली'ति । तथा अत्रापि लोकत्वव्यपदेशेन पञ्चानामपि समुदितानां नावयवस्वरूपमन्यथा भवतीति । अथवा नाऽत्र मृन्मयो घटस्तन्तुमयः पट इत्यादिवद् भिन्नोऽवयवी कोऽप्यस्ति, किन्त्ववयवा एव तथा व्यपदिश्यन्ते समुदिताः, यथा नाङ्गली विरहय्य हस्तश्चूतादीन् परित्यज्य वा वनस्पतिः, मुक्त्वाऽथवा गजादीन् सेना, तथा धर्मादिभिन्नो न कोऽपि लोकः, किन्तु त एव हस्तादिवत् धान्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256