Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org लोकविंशिका Acharya Shri Kailassagarsuri Gyanmandir २०५ C कारणरूपद्रव्यस्य सदा सत्त्वात् तद्व्यतिरिक्तत्वाच्च पर्यायाणाम् । उच्यते चात एव - ' उपायठिइभंगाई हंदि दवियलक्खणं एवं 'ति । सत्यं च नियमविरहादिति, चकारश्चात्रापि पूर्ववद्धेत्वन्तरसमुच्चयाय । परं न भवत्यभाव इत्यस्यैव सिद्धयै हेतोरेकत्वात् । अन्ये तु तरसत्ताए य विगमविरहाओ 'त्ति पाठमाहुः | साध्यहेत्वोरैक्यप्रसङ्गश्च विगमस्य ध्वंसरूपत्वात्, अभावस्य चाभावव्यवहार्यत्वात्, कार्यकारणभावापेक्षया भिन्नत्वमनुसन्धाय वारणीयः । केचित्तु ' तरसत्ताए य विरहाओ 'त्ति प्राहुः । परे तु ' तस्संतीए य तिगमविरहाओ 'त्ति पाठमवलम्ब्य सन्नेव स्त्रीत्वविवक्षायां सती, तेषां धर्मादीनां सती तत्सती, तत्सत्यास्तद्वर्त्तमानताया इत्यर्थः । भावप्रधान निर्देशश्चात्र । नोन्तस्तु प्राकृतशैल्यां तादृशस्यैव वर्त्तमानायां भावान्नायुक्तः । कथं चैतदित्युक्तम्- ' अतिगमविरहादि ति । तत्र अतिगमनं - निरन्वयभावेन विनाशः तद्विरहात् तस्याभावात् । चकारो ऽत्रानुकूलतर्कत्वसूचनायोत्तरस्य पदस्य । यतो यत् सत् तन्न विनश्यत्येव निरन्वयं, सतो नाशायोगात् । अन्यथा सत्त्वाविशेषान्नश्येत् त्रिभुवनमपि नाशकारणान्यपि नैव सन्ति । न च विलोक्यतेऽपि द्रव्यनाशः । स्वभावपरिवर्त्त एव च नाशपदार्थः । स चापि स्वभावादेवेति नास्ति निरन्वयो नाशो द्रव्यस्य तदभावे च सत्त्वेन गगनकुसुमादिवैलक्षण्यात् सदा सत्त्वमेव सहेतुकस्यैव कादाचित्कत्वात् इत्याहुः । , इतरे तु 'तत्संतीए यतिगमविरहाओ' इत्यस्य विशिष्टतावेव तात्पर्यमाहुः | अर्थश्च पूर्वव्याख्यानुसार्येव । परं सत्त्वे सत्यतिगमविरहात् अभावाभवनसिद्धिः । पर्यायव्यवच्छेदाय विशेष्यदलं, अभा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256