Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagars
लोकविंशिका
२०१
तथा तथेति । यथा द्रव्यत्वं न व्याहन्यते तथा-धौव्यापरित्यागप्रकारेणेत्यर्थः । यथाहि-जीवः स्वकर्मोदयात नानागतिषु पर्यटमपि न जीवत्वनिबन्धनं चेतनापरिणामं पारिणामिकं वा जीवत्वं परित्यजति, न तथाऽत्रापि धर्मादयोऽस्तिकायास्तथा तथा स्वभावपर्यायपरावृतिमाचरन्तोऽपि नारूपत्वादिधर्मादिस्वभावतां पारिणामिकं वाऽजीवत्वं परित्यजन्तीति तथोच्यन्ते । __अनेन य आहुः-अजीव इति विशेषलक्षणप्राधान्याज्जीवस्य चोपयोगलक्षणत्वाचेतनाशून्याः पदार्था इत्येवार्थों योग्यः, न तु जीवत्वशून्या इति । जीवनं हि आयुःकर्मप्रभावात् प्राणधारणमुच्यते, तनिषेधादजीवत्वे व्याख्यायमाने स्पष्टं सिद्धानामप्यजीवत्वप्राप्तिः, आख्यायते च सिद्धा अपि जीवतया 'संसारिणो मुक्ताश्च' इति वचनात् । ते निरस्ता वेदितव्याः । यतो जीवनं प्राणधारणलक्षणं तदौदयिकं, परं ‘जीवभव्याभव्यत्वादीनि च' इत्यत्र त्वप्रत्ययस्य 'द्वन्द्वादो' इति न्यायात् प्रत्येकमभिसम्बन्धाद् वर्ण्यमानं पारिणामिकं जीवत्वमुद्दिश्य प्रसज्यप्रतिषेधेऽपि बाधाभावात् । न प्रसक्वं तदित्यभिधानमपि नैव युक्तं, प्रथमं जीवत्वस्य व्युत्पादितत्वात स्वानुभवसिद्धत्वाद्वा जीवत्वस्य तथा प्रसक्तावपि विरोधासिद्धेः । पर्युदासे तु वाच्यमेव न किनिदित्यलमप्रस्तुतचर्चया ।
परिणमनं परिणतिः-पूर्वावस्थापरित्यागेनावस्थान्तरसाक्रमः । भावे स्त्रियां क्ति सिद्ध०] रिति क्तिः। यद्वा-परिणम्यते-परावर्त्यते द्रव्यमनयेति परिणतिः। पर्यायाणां द्रव्यादमिन्नत्वादेव, यदुच्यते-"दव्यं पज्जपविजुधं दवविजुया य पज्जवा णत्थि 'त्ति । तथा च करणे क्तिः
For Private And Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256