Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१०
Acharya Shri Kailassagarsuri Gyanmandir
लोकfafशका
'स्त्रियांति 'रित्यनेनैव भावाकत्ररित्यधिकारात् द्रव्यस्यानुस्यूतरूपस्य तथा तथाऽवस्थान्तरप्राप्तिः । अत एव चोच्यते- 'दवए दुयए दोरarat विगारो गुणाण संदावो 'त्ति । गुणानां च पर्यायत्वं स्पष्टमेव स्पष्टितं द्रव्यपर्यायार्थिकोभयतया नयज्ञापनेन, भिन्नत्वे गुणार्थिकस्य तृतीयस्यापि स्यादेव वाच्यता । तथा च यत्र गुणपर्याययोरुभयोर्ग्रहणं युगपद् भवति, तत्र तक्रकौण्डिन्यन्यायेनेत्यनुसन्धेयमनुसन्धानधौरेयैः । अवस्थान्तरप्राप्तेरेव च परिणतित्वं ' नार्थान्तरगमो यस्मात् सर्वथैव न चागमः । परिणामः प्रमासिद्ध इव खलु पण्डितैः ' || १ || इत्यादिनाऽनेकत्र साधितमेव विद्वद्भिः ।
"
अनेन परिणाममात्र परावृत्तिद्वारा द्रव्यविनाशमभीप्सतो वैशेषिकादेर्निरस्तमेव मतम् । एवं हि क्षणिक एव पर्यवसानात् निषण्णोस्थितमनुष्यदेहेऽपि भेदबुद्धेरवश्यं स्वीकार्यत्वात् भिन्नं हि परिणाममुभयत्र नवपुराणादि भावस्य च प्रतिक्षणं भावादर्पितयाचनादिः सोऽहमित्यादिः सोऽयमित्यादिश्व प्रतिदिनक्रियमाणप्रामाणिकव्यवहानियोsपि विशरारुतां व्रजेत, ब्रजेयुः शिष्टा अपि समेऽशिष्टतां मृषावादित्वप्रसङ्गात, यथाज्ञाताभिधाय्येव च शिष्टः, अन्यथा तु विप्रतारकाणां वेदाभ्युपगन्तृणां स्यादुच्छिष्टतापादयित्री शिष्टता, शिष्टानां ब्राह्मणानां चाण्डालकमातृकत्वादिवत । किञ्च तथातथेति योगाच एकाश्रयता पर्यायाणामनन्तानामपीति तु स्वयमूह्यम् । तथातथापरिणतिश्वासों नेतरकर्तृकेत्युदाहृतम् - स्वभावेति । यद्वा-नेयमारोपिता माणवकेऽग्नित्वाद्यारोपयत् किन्तु स्वाभाविकैवेत्युदितम् - स्वभावेति । अनेन च तथा तथा परिणत्यापादनमपीश्वरकर्तृकं द्रव्याणां परमाण्वादीनां द्रव्याकर्तृकत्वेऽपि कर्तृकतासाधकमिति परि
,
For Private And Personal Use Only
7

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256