Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 234
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका २११ त्यज्य प्राचीनपथमपरमपि कल्प्यमानं न क्षमावहामित्यावेदितम् । सुष्टेः प्राग् द्रव्याणां तथातथापरिणत्यभावे उत्पादविनाशादिपर्यायव्यपेतत्वेन द्रव्यत्ववाच्यताया एवाभावात्त । यदि च तदा वर्तन्त एव तानि स्वयं तथातथा तदा को विद्वेषः ? पश्चाद्यदीश्वरः परिममयति तथातथा तानीति । उच्यतेदुग्धादीनां दध्यादिभावश्च दृश्यत एवं स्वयम् , तन्न द्रव्याणां यथार्ह तथातथापरिणतिस्वभावत्वं श्रद्धातुं दुष्करं बुद्धिमताम् । ईश्वरस्यापि च तथातथापरिणतिस्वभावत्वं स्वीक्रियते, तदैव तस्यापि युक्ता बदितुं द्रव्यता तस्य । स्वयं तथा वर्त्तने को विद्वेषश्च इतरेषां तथातथावर्त्तने ?, येन प्रकल्प्यते परमेश्वरस्य परमकलङ्कभूता कर्तृता, कार्यत्वादिहेतुवृन्द चासिद्धप्रतिबन्धं विशेषविरुद्धसाध्यसाधकं च । यतो यथा भवद्भिः कार्याणां सकर्तृकत्वदर्शनमात्रेण कल्पितसंस्थानबत्त्वादिना पृथ्ञ्यादेः सकर्तृकत्वं साध्यते, वृक्षाङ्कुरादिकार्यगणं प्रत्यक्षविरुद्धमपि श्रद्धान्धतया, तथा कि नालोक्यते सर्वत्र शरीरप्रयत्न. सद्भावः कार्यमाने ?, आलोक्यते, कथं नेश्वरस्य सशरीरताप्रसङ्गः, न कर्मवत्ताप्रसङ्गश्च ? । ततः कथश्चनापि नैव निवारयितुं शक्यः । यच शरीरक्रियायां शरीरान्तराभाव इति नोद्यते, तदपि लैङ्गिकशरीरस्वरूपानवगममूलमेव । यद्वा-अस्तु कर्मवाँस्तु निखिलप्राणिगणस्तथाऽवेक्ष्यते इति किं न तत्तत्राभ्युपेयते, अभ्युपगमे च स्पष्टव संसारिवदकर्तकता संसारिणां वा सकर्मयामेव कर्तृता । बदपि चोच्यते-विशेषविरुद्धेन किं कियते इत्यादि, तदप्यनेन परास्तमेव । हेतुब्यावर्त्तनेन कर्तृताया अपि व्यावृत्तेः । मृतिकारस्यापि घटस्थ बुद्धिमत्कर्तृकत्वसिद्धेवल्मीकविधायिन्या अप्युदेहिकायास्तथाविधबु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256