Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ लोकविंशिका वव्यवच्छेदाय च सत्यन्तम् , अभावाभव नस्य सताऽनाश इत्यर्थकत्वात् , सामान्यविशेषरूपेण साध्यहेत्वोर्मेदात् ध्वंसस्य कारणताशून्यत्वस्य वा साध्यतामाश्रित्येत्याहुः । अथ चैवं धर्मादीनां तत्त्वतोनुपादानत्वेनाऽनादिनिधनतां गमयन्त्याचार्याः । नहि धर्मादीनामस्ति कारणमुपादानाह्वम् , घटादीनामस्त्येवेति तेन तथा नाकाशादीनां च तदिति अनादिनिधना एते धर्माद्याः , आकाशादीनां पक्षकदेशभूतानामपि दृष्टान्तत्वं नानुचितं, प्रतिवादिभिः तथैव तत्प्रतिपत्तेः, प्रतिपत्त्यास्पदं च व्याप्तेई ष्टान्त इति त्वखिलवादिसम्मतः पन्थाः । अन्यथा तु वद्विमान् धूमात् महानसवदित्यत्रापि भवेदेव वादिनां कान्दिशिकत्वम् । सझेपतो निगमयन्त आहुः- एवमणाई'इत्यादि । तत्र 'एव'मिति पूर्वोक्तरीत्या तथा तथा निजस्वभावात् परस्वरूपानापत्तेरभावाभावात्तत्सत्त्वात् नियमविरहात् इत्याद्यदुष्टहेतुसाम्राज्यसिद्धेः । किमित्याहुः-अनादयः अस्तिकाया इति तु प्रकृतमेव । ननु च प्रागनादिनिधनत्वं प्रतिज्ञायोपसंहारे कथमूचिवांसोऽनूचाना अनादय इत्येवेति चेत् । सत्यम् , ज्ञापनायैवैवं न्यायविशेषस्य 'कत्थइ देसग्गहण' मित्यस्य व्यपदेशः । परे त्वनादितैवानिधनत्वे मूलमितिज्ञापनाय । कर्मसंयोगस्य तु प्रवाहतोऽनादिता नैकव्यक्तिकी । अत्र तु द्रव्याणामेकस्वरूपेणैवानादितायाः पूर्वं साधितत्वात् सुविस्तरम् । केचित्तु प्रागनादिनिधना इत्यत्र प्रासङ्गिकमेवानिधनत्वमुद्दिष्टम् , अनादिताया एव प्रकृतत्वाद् । अत एव च द्वितीयविंशिकासूचाधिकारे ‘लोगाणादित्तमेव बोद्धव्व' मिति । प्रकरणोपसंहारे 'इय तंतजुत्तिसिद्धो अगाइमं एस हंदि लागु 'त्ति । तथा प्रकरणोपक्रमेऽपि 'अणाइमं वट्टए इमो लोगो'त्ति च प्रतिपादितवन्तः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256