________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोकविंशिका
Acharya Shri Kailassagarsuri Gyanmandir
२०५
C
कारणरूपद्रव्यस्य सदा सत्त्वात् तद्व्यतिरिक्तत्वाच्च पर्यायाणाम् । उच्यते चात एव - ' उपायठिइभंगाई हंदि दवियलक्खणं एवं 'ति । सत्यं च नियमविरहादिति, चकारश्चात्रापि पूर्ववद्धेत्वन्तरसमुच्चयाय । परं न भवत्यभाव इत्यस्यैव सिद्धयै हेतोरेकत्वात् । अन्ये तु तरसत्ताए य विगमविरहाओ 'त्ति पाठमाहुः | साध्यहेत्वोरैक्यप्रसङ्गश्च विगमस्य ध्वंसरूपत्वात्, अभावस्य चाभावव्यवहार्यत्वात्, कार्यकारणभावापेक्षया भिन्नत्वमनुसन्धाय वारणीयः । केचित्तु ' तरसत्ताए य विरहाओ 'त्ति प्राहुः । परे तु ' तस्संतीए य तिगमविरहाओ 'त्ति पाठमवलम्ब्य सन्नेव स्त्रीत्वविवक्षायां सती, तेषां धर्मादीनां सती तत्सती, तत्सत्यास्तद्वर्त्तमानताया इत्यर्थः । भावप्रधान निर्देशश्चात्र । नोन्तस्तु प्राकृतशैल्यां तादृशस्यैव वर्त्तमानायां भावान्नायुक्तः । कथं चैतदित्युक्तम्- ' अतिगमविरहादि ति । तत्र अतिगमनं - निरन्वयभावेन विनाशः तद्विरहात् तस्याभावात् । चकारो ऽत्रानुकूलतर्कत्वसूचनायोत्तरस्य पदस्य । यतो यत् सत् तन्न विनश्यत्येव निरन्वयं, सतो नाशायोगात् । अन्यथा सत्त्वाविशेषान्नश्येत् त्रिभुवनमपि नाशकारणान्यपि नैव सन्ति । न च विलोक्यतेऽपि द्रव्यनाशः । स्वभावपरिवर्त्त एव च नाशपदार्थः । स चापि स्वभावादेवेति नास्ति निरन्वयो नाशो द्रव्यस्य तदभावे च सत्त्वेन गगनकुसुमादिवैलक्षण्यात् सदा सत्त्वमेव सहेतुकस्यैव कादाचित्कत्वात् इत्याहुः ।
,
इतरे तु 'तत्संतीए यतिगमविरहाओ' इत्यस्य विशिष्टतावेव तात्पर्यमाहुः | अर्थश्च पूर्वव्याख्यानुसार्येव । परं सत्त्वे सत्यतिगमविरहात् अभावाभवनसिद्धिः । पर्यायव्यवच्छेदाय विशेष्यदलं, अभा
For Private And Personal Use Only