________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
लोकविशिका
सत्यभावाभावः स सोऽनादिरेव, यथेश्वरादिः । तथा यस्याभावाभावः सोsनिधन एव, यथाकाशादिर्गगनकुसुमाभावादिर्वा । न च नश्यति गगनकुसुमाभावस्तदुत्पत्तिनान्तरीयकत्वात् तस्य । न च भवति सैवेत्यनिधनतैव तस्य । अथ कथं न भवत्यभाव इति चेद् ? आहु:' तस्संतीए य नियमविरहाओ 'त्ति । शान्तिः - उपरमस्तेषां पूर्वोक्तानामस्तिकायानां शान्त्यामुपरमे ऽभ्युपगम्यमानायामिति शेषः । नियमो - लोकप्रसिद्धव्यवहारो लोकस्थितिर्वा 'नियमः स्यात् प्रतिज्ञायां निश्चये यन्त्रणे व्रते' [अनेकार्थ०] इत्यत्र यन्त्रणस्यापि प्रहात् । तस्य तस्या वा विरह :- विनाशोऽसाङ्गत्यं तस्मात् चकारः पूर्वहेतु सिद्ध हेलन्तरताऽस्य ज्ञापनाय । इदमत्र तत्त्वम् - यदि धर्मास्तिकायादीनामभ्युपगम्यते विरामो, न केनापि निर्वहति लोकव्यवहारो लोकस्थितिर्वा, कारणविरहादिना पुनरुत्पादाभावात् तदन्तरेण च गत्याद्यभावात्, तदभावे दृश्यमानस्य व्यवहारस्य स्थित्या वाऽनुपपत्तिरेवेति ।
तत्स
अपरे स्त्रीत्वनिर्देशस्य प्राकृत शैली प्रभवत्वं व्याख्याय तु त्वादिति धर्मादीनां विनाशाभावे हेतुमाहुः, सामान्यस्य हेतुत्वाद्विशिष्टस्य च साध्यत्वात् न च साध्यहेत्वोरैक्यप्रसङ्गः । यद्वावर्त्तमानकालीनधर्मादिसत्त्वस्य हेतुतामास्थाय त्रिकालिकाभावाभावं तेषां साध्यते इति न कथञ्चनापि नोद्यम् । नियमश्चैवम् - नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः || १ || इति । तथा च यस्य त्रिकालेऽपि स्याद्विनाशः सोऽईति न वर्त्तमानसत्तां, द्रव्यार्थिकनयापेक्षया च प्रस्तुतप्रकरणा रम्भात् पर्यायाणां तेन पृथगनभ्युपगमान्न पर्यायैः सम्पादनीया अनैकान्तिकता । यद्वा तेषामप्यभिमतेव सत्ता प्रमाणेन तेषां
-
For Private And Personal Use Only
6