SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका २०३ यद्वा-पूर्वगाथायां परस्वरूपानापत्तिज्ञापनेन साधितमयस्थितत्वं तथापि मा भूत् सावधिकनियतत्वलक्षणमवस्थितत्वमित्यनाद्यपर्यवसानखरूषां नित्यतां साधयितुमनादिनिधनताविशेषणता अनेन तस्य हेत्तोरित्यपि चेति । तथा च परस्वरूपानापत्तावपि अभावाभावात् इत्येवंरूपो हेतुः सम्पन्नः। पर्यायाणां स्वतः पर्यायान्तरप्राप्त्यभावान्नास्ति परस्वरूपापत्तिः, तथापि जायते एवाभावो वाय्बादीनामभाषाभाषेऽपि च जलादिरूपतया परिणतेः न परस्वरूपानापत्तिरिति योग्य एवं विशिष्टो हेतुः। प्राग व्याख्याने तु तथातथानिजस्वभाववृत्तिमत्त्वसाधनाय तदुपन्यासान्न चर्च्यमस्ति किञ्चिदिति । यद्यप्यन्योन्याभावस्यास्ति भावात्मकता, तथापि ध्वंसादौ तथात्वाभावात् नाभोवाभावत्वस्य पूर्वप्रोक्ततथातथास्वभावहेतोरविशेषश्चिन्त्यः । 'प्रतीयते हि घटध्वंसो न घटो, घटाभावो न, घटध्वंसः, अन्योऽन्याभावस्य वा घटापेक्षयाऽन्योऽन्याभावान्वितत्वात् पूर्वोक्तः प्रसङ्गः हेतोर्न चिन्त्यतामेति । यद्वा-पूर्व पदार्थस्य भावाभावात्मकत्वाद् भावप्राधान्येन हेतुता, अधुना त्वभावप्राधान्येनेति विज्ञेयं विबुधैः । भावाऽभावोभयात्मकता च भावस्य । तथाऽनङ्गीकारे घटपटाभावयोभिन्नत्वेन स्पष्ट एव घटस्य पटताप्रसङ्गः। अपेक्ष्य चैतमेव पठ्यते परममुनिमिः मिथ्यादृशां बोधस्याज्ञानता ‘सदसतोरविशेषाद्यहच्छोपलब्धेरुन्मत्तवदि 'त्यत्र 'सदसदविसेसणाओ भवहेउ जदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छादिद्विस्स अन्नाणं' ॥१॥ [विशेषा०] इत्यत्र च । इत्यलमतिप्रस्तुतेन । यतोऽभावो न जायते इत्यनादिताऽनिधनता वा ? | आये, सत्त्वे सत्यभावाभावान् । अन्त्ये तु पक्षे यथाश्रुतमेव । यस्य यस्य च सत्त्वे For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy