________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
लोकविंशिका नस्ये 'ति निर्दिष्टमेकवचनान्तेन एकभुवनोपकर्त्तत्वं तस्य, सङ्गच्छते च तदुपरितनोक्तरीत्येति प्रतिपादितं निदोषः कर्तृवाद इति । 'शाखकारा महात्मन' इत्यादि तु सम्यग्दृष्टेः सरलः पन्थाः । 'सर्वत्रे 'ति ज्ञापनेनाचार्याः तथा योजकानामेव महिमानमेवमाविश्वः । तथा चैतावता पर्यायाणामनित्यत्वेऽपि द्रव्यतया नित्यत्वाद् अनादिनिधना एते इति साधितम् । अथ तथातथेत्यादितः प्रसाध्यानादिनिधनतां अविनाशादन्यथा परिणत्यभावाच पुनर्विशेषतोऽनिधनतां साधयन्त आहुस्तेषाम् ।
यद्वा-पर्यायाणां व्ययित्वात्तेषां च 'एगदविअंमि जे अत्थपज्जवा वयणपजवा वावि । तीआणागयभूया तावइयं तं हवइ दव्वं ॥११॥ ति 'उम्पायठिइभंगाई हंदि दवियलक्खणं एय'ति च [सम्मति०] वचनाद् द्रव्यैकदेशता तथा चैकदेशविनाशाभ्युपगमात् स्पष्टः सर्वविनाशाभ्युपगमापत्तिरित्यापायेत परेण, तत्र द्रव्यस्य कथञ्चित् पर्यायभिन्नत्वेन तद्भिन्नपर्यायव्यपगमेऽपि तस्याव्यपगमः , अन्यथा पर्यायानामेवानुपादानतयोत्पादाभावादित्यभिप्रेत्य स्पष्टतरमाहुनित्यता लोकस्य पश्चास्तिकायात्मकस्य प्रकरणानुसारिणीम्
नविय अभावो जायइ तस्संतीए य नियमविरहाओ। एवमणाई एए नहातहापरिणइस हावा ॥३॥
'अपि चे 'त्यभ्युच्चये साध्यसिद्धेः । यद्वा-प्रथमगाथया उत्प त्तिमत्त्वेन संसाध्याऽनादितां लोकन्य अनया निधनाभावं प्रतिपादयन्ति, तदर्थमेव च ‘अपि चे 'ति । तथा च न केवलं तथा तथा स्वभावात परस्वरूपापत्त्यभावादनादिता, किन्त्वभावाभावादपीयर्थः ।
For Private And Personal Use Only