________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
गुणम्य भवति गतिः, न च स्पर्शादिषु दृष्टापि । शब्दस्य तु मा विद्यत एव, अन्यथा श्रवणाभावप्रसङ्गात् । जलतरङ्ग-कदम्बगोलकन्यायेन शब्दोत्पत्तिरपि नैव गुणत्वानुगुणा, यतो यस्मिन्नेवावकाशे ऽभिव्यजकं तस्मिन्नेवोत्पद्येत गुणः , न चापसत्त॒मलं स्यात् ति लतुपत्रिभागमात्रमपि सः, अन्यथा गुणनैयत्याभावप्रसङ्गात् । ___ अन्यच्च-गुणः सन् कथं निकटदूरादिभावेन हासतां भजेत , कथं च महानल्पमुत्पादयेत् ? । आस्तामन्यत् , गन्धपुद्गलानामिव धूमादीनामिव च कथं वायुवेगानुकूलप्रतिकूलताभ्यां गुणत्वे शब्दम्यानुकूलना-प्रतिकूलते सम्भवतः ? । कथं च तीव्रशदविहितं बाधियमपि स्यात् तथात्वे, न च तीवेणापि वायुनोत्पाद्यते बाधिर्यम् । न च पक्ष्मादिकमपि म्पन्दते । वायोस्तु स्वभाव एवैष-यन स्पन्दयत्येव तादृशम् । न चोत्पत्तौ विनाशे वाऽवयवानुपलब्धेः कथं द्रव्यत्वम् ? , कृशानोः प्रभाया वा तथाभावात् , न च न ते द्रव्यभूते । आस्तामेवमनुमानादिविचारेण । प्रत्यक्षेणैव तावच्छब्दस्य शब्दप्रतिबिम्ब यन्त्रेण किं न प्रतिपद्यते शब्दस्य द्रव्यता? । तत्र हि चिरतरमपि शब्दास्तादृशा एव तारादिगुणोपेताः स्वरविशेषोपाधिसमन्विताः किं नेक्ष्यन्ते ? न चैतद् गुणत्वे तम्य भवति युक्तियुक्तम् । ___अन्यञ्च-विद्यन्त्रेण शब्दानां गमागमो नाबलोकितौ दुरतरा दपि प्रदेशाद्विादान्त्रालयेषु ? न चेदवलोकयन्तूभयमप्येतन शब्दप्रतिबिम्बीयं शब्दगमागमिकं च, स्थाने स्थाने भावात्तस्य । कथं च गुणत्वे तम्य कोष्ठाद्युत्पन्नवायुनानुगुण्यम् , तस्य द्रव्यत्वान् महाप्रयत्ने महतोऽल्पं चाल्पस्योत्पादोऽपि वायुद्वारा जायमानः कथमपवदते द्रव्यताम् । न च वायोः स गुण इति कथ्यते, न च विद्यतेऽस्यमी
For Private And Personal Use Only