Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका तभावो अविसिट्ठो जदि णो थेवतरदोससब्भावो । पावेति तस्स अहवा रागादीणं अभावो उ ।।२६।। तद्भावो रागादिपरिणतिसद्भावोऽविशिष्टः-केनापि विशेषणेन रहित इति । सति परिणतिवशिष्टये एव बन्धस्य स्तोकतरत्वं भवेन्नान्यथेति तत्त्वम् । स्तोकबन्धाऽभ्युपगमेऽपि सकलकर्तृताभावः स्पष्ट एव । न च वादिना तदभ्युपगम्यते, सोऽभ्युपगमवादेनैव च प्रसञ्जितः किन्तु सूरिभिः । तथा च न परिणतितारतम्ये बन्धतारतम्यं न स्वीकुर्वन्त्याचार्या इति मन्तव्यम् । अत एवोक्तमविशिष्ट इति । 'अथवे 'ति रागादिपरिणत्यनभ्युपगमे इति । रागाद्यभावप्राप्तौ च क्रीडादिचित्रभेदानश्वर्यादिभेदेन सत्त्वाँश्च न युज्यते कर्तुं तस्य । सर्वस्यास्य मूलं तत्प्रतिकारं च सक्षेपत आहुः तस्स अणादित्तं तह अन्नेसिं वाऽऽदिमत्तमहिकिञ्च । भणियमिणं न उ सिद्धं तस्सेवाणादिमत्तं तु ॥२७॥ एतत् पूर्वोक्तं जीवोत्पत्त्यादि यद् हि भवत्यादिमद् , भवेत् सकर्तृकं, कर्ता च कार्यात् प्राकालीन एवेति समाश्रित्य तस्य विधातुरनादित्वमितरेषां संसार्यात्मनां सादित्वं चाभ्युपेत्योक्तम् । यद्वा-यदि भवेदीश्वरे बन्धप्रसङ्गो न स्यादनादितेति । बन्धाभावोऽभिमतः तत्रान्यत्र चातथात्वान्न तथेति चेदाहुःभणितं वाङ्मात्रेणेदं वचनमात्रमेव, न तु प्रमाणप्रतिष्ठितम् । अन्योन्याश्रयात् । सिद्धे ह्यनादित्वे बन्धाभावः, बन्धाभावसिद्धौ चानादिवं यतः । न च सिद्धमेकतरमपि प्रमाणादिति । अपरथोत्पत्तिपक्षं निराकुर्वन्ति___ तह संतेऽसते वा कुणति ततो ते उ पढमपक्खंमि । किं तस्स कारगत्तं चरमे तु ण संगयं करणं ।।२८॥ 'तथे 'ति पूर्वदूषितोत्पत्ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256