________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका तभावो अविसिट्ठो जदि णो थेवतरदोससब्भावो । पावेति तस्स अहवा रागादीणं अभावो उ ।।२६।। तद्भावो रागादिपरिणतिसद्भावोऽविशिष्टः-केनापि विशेषणेन रहित इति । सति परिणतिवशिष्टये एव बन्धस्य स्तोकतरत्वं भवेन्नान्यथेति तत्त्वम् । स्तोकबन्धाऽभ्युपगमेऽपि सकलकर्तृताभावः स्पष्ट एव । न च वादिना तदभ्युपगम्यते, सोऽभ्युपगमवादेनैव च प्रसञ्जितः किन्तु सूरिभिः । तथा च न परिणतितारतम्ये बन्धतारतम्यं न स्वीकुर्वन्त्याचार्या इति मन्तव्यम् । अत एवोक्तमविशिष्ट इति । 'अथवे 'ति रागादिपरिणत्यनभ्युपगमे इति । रागाद्यभावप्राप्तौ च क्रीडादिचित्रभेदानश्वर्यादिभेदेन सत्त्वाँश्च न युज्यते कर्तुं तस्य । सर्वस्यास्य मूलं तत्प्रतिकारं च सक्षेपत आहुः
तस्स अणादित्तं तह अन्नेसिं वाऽऽदिमत्तमहिकिञ्च । भणियमिणं न उ सिद्धं तस्सेवाणादिमत्तं तु ॥२७॥ एतत् पूर्वोक्तं जीवोत्पत्त्यादि यद् हि भवत्यादिमद् , भवेत् सकर्तृकं, कर्ता च कार्यात् प्राकालीन एवेति समाश्रित्य तस्य विधातुरनादित्वमितरेषां संसार्यात्मनां सादित्वं चाभ्युपेत्योक्तम् । यद्वा-यदि भवेदीश्वरे बन्धप्रसङ्गो न स्यादनादितेति । बन्धाभावोऽभिमतः तत्रान्यत्र चातथात्वान्न तथेति चेदाहुःभणितं वाङ्मात्रेणेदं वचनमात्रमेव, न तु प्रमाणप्रतिष्ठितम् । अन्योन्याश्रयात् । सिद्धे ह्यनादित्वे बन्धाभावः, बन्धाभावसिद्धौ चानादिवं यतः । न च सिद्धमेकतरमपि प्रमाणादिति । अपरथोत्पत्तिपक्षं निराकुर्वन्ति___ तह संतेऽसते वा कुणति ततो ते उ पढमपक्खंमि । किं तस्स कारगत्तं चरमे तु ण संगयं करणं ।।२८॥ 'तथे 'ति पूर्वदूषितोत्पत्ति
For Private And Personal Use Only