SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ लोकविंशिका वादे अभ्युपगम्यमानेऽपि 'तता 'त्ति । सक ईश्वरस्तान संसारिप्राणिनः । सतः करणाभावो भावे वा क्रियाकल्यादिसङ्ख्यातीतदोषप्रसङ्गः। चरमश्चासत्करणाख्यः पक्षः, तत्राभ्युपगम्यमानेऽसङ्गतिः, शशशृङ्गगगनारविन्दादेरपि करणापत्तेः, तस्याप्यसत्त्वाविशेषात् उपा. दानग्रहणादिनियमोच्छेदापत्तेश्च । ननु कथं तर्हि कार्योत्पादः ? जगत्यामपि उत्पद्यन्त एव च घटादय इति चेत् । सत्यम् , कारणात्मना द्रव्यरूपेण सत्त्वाभ्युपगमे कार्यात्मना च पर्यायरूपेणाऽसत्त्वाभ्युपगमे । न चायं न्यायो वादिना स्वीकत पार्यते, जीवानां द्रव्यरूपेण सत्त्वस्वीकृतौ परपक्षप्रवेशप्रसङ्गात् हीयते च प्रतिज्ञा तस्य इति । एवं जीवकर्तृत्वपक्षं निरस्य निरस्यतीतरम् अजोवो उ ण कत्ताभिप्पायाभावओ घडादिव्व । अन्नेसि सत्ताणं दोसा एत्यपि पुव्वुत्ता ॥२९॥ तु शब्द एतत्समालम्बनस्य निर्गतिकालम्बनतां सूचयति । अजीवादुत्पद्यन्ते इति पक्षो जीवस्वभावनिराकरणपक्षातिदेशदूषित इति कर्तत्वमिच्छापूर्वकप्रयत्ननिर्वय॑त्वलक्षणमभिप्रेत्य दूषितम् ' अभिप्रायाभावा 'दिति । यद्वा-साभिप्राया जीवा न निरभिप्राया जीवकर्तृका इत्युक्तमभिप्रायाभावादिति । यदि वा परैरभिप्रायवतामेव कर्तृत्वममिमतम्, अन्यथा विधात्रङ्गीकारप्रयोजनाभावादित्येवं निरस्यन्ते ते पूर्वोक्ताः । सोऽपि कृत्रिमोऽकृत्रिमो वेत्यादिका अवतारणीया वनस्पतेरङ्करादिदर्शनेनौषध्यादीनां चामयोपशान्त्यादिदर्शनेन अभिप्रायाऽभावेऽपि कर्तृतोपगमे पूर्वोक्ता दोषा इति वा। अथवा भूतवादोक्ता न भूतधर्मश्वेतनेत्यादिका भौतिकवादिनः प्रति प्रेरिता दोषा अत्रापि समानाः । ईश्वरकवादोक्तपरिणत्यभावादिवैषम्यवत्त्वादजीवानामिति । निगमयन्त आहुः For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy