________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१८७
जीवाजोवविभिन्नं न अस्थि वत्थंतरंति जप्पभवा । होज्ज इमे खलु जीवा ण कत्तिवादो तओ जुत्तो ॥३०॥ चेतनावान् हि जीवः तद्वियुक्तश्चाजीव इति । न तदुभयाभावान्वितः कोऽपि यतः, ततो न वस्त्वन्तरं जीवाजीवविभिन्नम् । तादृशवस्त्वभावे कुतस्तत्प्रमवत्वं भवेज्जीवानाम् , 'सति धर्मिणि धर्माः ग्रामे च सीमे 'ति नियमात् । तथा च ईश्वरलक्षणाज्जीवात् तद्वथतिरिक्तादजीवादसम्भवित्वाच्चान्यस्याध्यक्षमवगमाच्च जीवानां, नेमे विहिताः केनापीति सिद्धम् । तथा च जीवकर्तृत्ववादो न युक्तो मनीषिणामभ्युपगन्तु. मपि नो युक्तः, युक्तस्यैव तैरभ्युपगमात् । एवं कर्तृवादनिराकरणेन साधितं अनादिनिधनत्वं जीवानां साधयन्त आहुः
कारणविरहा परमरिसिवयणतो भणियदोससब्भावा । तम्हा अणादिनिहणा जीवा सव्वेवि सिद्धमिणं ॥३१॥ कारणम्-उपादानकारणादि, यथा घटस्य मृत्पिण्डादि, तस्य विरहः-अमावस्तस्मात् । स च भौतिकवादनिराकरणादीश्वरकर्तृत्वप्रतिविधानाच्च । ननु किमतत् ? उपादानकारणता निराकृता, न शेषेति चेत् । तदनुसारित्वादेव शेषायाः तन्निराकरणनिराकृतत्वं तस्या अपि । यद्वा-स्वसिद्धान्तप्रतिपादनप्रस्तावात् न द्रव्यषटकेऽप्यस्ति तद्वस्तु, यद् जीवोत्पत्ती कारणतां बिभृयात् । अपरं कारणमाहुरनादिनिधनत्वे-'परमर्षिवचनतो'ऽपि । अपिगम्योऽत्र हेतुसमुच्चायकतया । यद्वा-द्रव्यषट्कस्य तत्स्वरूपस्य च कुतः प्रामाण्यतेत्याहुः- परमे 'ति । यद्वा-अनादिनिधनत्वसाधने किमालम्बनं ? कारणविरहे तु वस्तुन एवाभावापसेरित्याहुः-'परमे 'ति, परमेति च अकलङ्कितज्ञानसम्पमत्वेनाप्ततासापनायैषाम् । तथा चाविप्रतारकवचनाद् जीवानामनादिनिधनतेति ।
For Private And Personal Use Only