________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
लोकविंशिका अपरं चास्य स्वतन्त्रप्रमाणत्वाभिमतौ कारणत्रिरहेत्यस्य विशिष्टता वाच्या सत्त्वे सति कारणविरहात् इति । तत्र यत्र यत्र सत्त्वे सति कारणविरहत्वं तत्रानादिनिधनत्वं, यथा पराभ्युपगत ईश्वरः आकाशादिर्वा । परमर्षिवचनं च- जीवे अणाइनिहणे' इति, 'नित्यावस्थितान्यरूपाणी 'ति, 'जीवेणं भंते ! किं सासए असासए ? गोयमा ! दव्वट्ठयाए सासए पजवट्टयाए असासए' इत्याद्यात्मकम् । कारणविरहोपन्यासप्रामाण्यायैतद्वचने चाभिप्रेते
'अमओ य होइ जीवो कारणविरहा जहेव आगासं । समय च हो अणिच्चं मिम्मयघड-तंतुपडमाई ।। इति । अमयः-न किम्मयोऽनुपादान इत्यर्थः । कुतः ? कारणविरहात् । मृदादिवत् परिणतियोग्यकारणाभावाद्, दृष्टान्तं यथैवाकाशम्। विपर्यये समयम्-उपादानजन्यं 'चो' व्यतिरेकव्याप्तिसमुच्चयाय अनित्यं भवति । दृष्टान्तं तत्र मृन्मयो घटस्तन्तुमयः पट इति दृष्टान्तद्वयम् । आद्यस्य परिणामविशेष उपादाने उत्पत्तिविशेषोऽन्यस्य क्रियाविशेष इति तु स्वयमभ्यूह्यम् । तथा चानादिनिधनत्वं सिद्धमेव जीवानाम् । स्पष्टमायाहुः
'कारण अविभागाओ कारण अविनासओ य जीवस्स । निच्चत्तं विनेयं आमासपडाणुमाणाओ ॥ इति । अत्र कारणाविभागः पटादेस्तन्त्वादिर्यथा कारणं तथा नैवमस्य । तथा कारणाविनाशः कपालं घटस्य कारणं विनश्यति च न तथात्र, कारणस्यैवाभावात् । तत आकाशवद् नित्य एव स इत्यादि ऋषिवाक्यमपि च । आप्तोपज्ञमनुल्लध्यमदृष्टेष्टविरोधकम् । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ।।१।। इति लक्षणादविरोध स्यादित्याहुः-भणितदोषसद्भावात
For Private And Personal Use Only