________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
प्रतिपादितदोषसम्भवादन्यथेति तु ज्ञेयम् । यद्वा-परमर्षीणां प्रामाण्येऽनादिनिधनत्वे वा योज्यमेवं अदोषसम्भवात् निर्दोषत्वात्तेषां निर्दोषत्याद्वाऽस्यार्थापत्त्यान्यथापक्षस्य सदोषत्वमनूदितम् । यद्वा-भणितदोषसद्भावादनादिनिधनत्वानभ्युपगमेऽभ्युपगन्तव्यमिदं इति स्वतन्त्रं प्रमाणत्वेन व्याख्येयम् । उपसंहरन्त आहुः-' तस्मादि 'ति । अनादिनिधनास्तेऽपि नेश्वरकल्पा एवेत्युक्तम्-' सर्वेऽपि' अपि शब्दान्न केवल ईश्वरः । यद्वा-जीवत्वं ह्यनादिनिधनत्वाविनाभावि, तच्च सर्वेषामसुमतामिति सर्व एव तथा इत्ययोगव्यवच्छेदकैवकारार्थकोऽपिरितिज्ञेयम् । नैतद् वचनमात्रमिति ज्ञापनाय 'सिद्धमिणं'ति । अनेन निरस्तास्ते य आहुः
'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥१।। इति । 'निदोषं काञ्चनं चेत् स्यात् परीक्षाया बिभेति किम् । सदोषं काञ्चनं चेत् स्यात् परीक्ष्य किं प्रयोजन 'मिति परिहारात् । अत एव चोक्तं पूज्येरेवान्यत्र-'पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ इति । यथैव चात्र धर्मादीनामनादिनिधनत्वमसाधि जीवावसानानाम् , तथैव पुद्गलास्तिकायस्यापि ज्ञेयम् , समानयोगक्षेमत्वात् । न च दृश्यन्त एव घटादयो विनश्यमाना इति प्रत्यक्षविरोध इति । तत्र पर्यायस्यैव, मृदस्तु तथैवावस्थानात्, उच्यतेसैवेयं मृदु याऽऽसीद् घटः , स एवायं तन्तुबजो य आसीत् पट. इति । पठ्यते चात एव-पर्ययन्तीति पर्यवा इति । द्रव्यपर्याययोरभेदे कथं पर्यायाणां केवलानां विनाशः, अवस्थानं वा द्रव्यस्य केवलस्येति चेत् । कथश्चिद् भेदवादस्याप्यभ्युपगमात्,. सर्व चैतद् 'अपितानर्पितसि.
For Private And Personal Use Only