________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
लोकविंशिका द्धे 'रितिनियमात् । अत एव च द्रव्यार्थतया शाश्वतत्वप्रतिपादनेऽपि भगवद्भिराख्यातः स्याच्छब्दः। यत उक्तम्-‘दव्वट्ठयाए सिय सासए' इत्यादि भगवत्याम् । ____ एवं च पश्चानामपि धर्माधर्माकाशासुभृत्पुद्गलानां तथा तथा निजस्वभावतोऽनादिनिधनत्वं सिद्धम् । अत्र शब्दार्थ एवम्-तेन तेन प्रकारेण धर्मादीनां प्रत्येकविमिन्नस्वभावत्वावेदनाय द्विवचनोक्तत्वात् यथा यथा तेषामधुना सत्ता तथा तथैव निजानां-स्वेषां धर्मादीनां स्वभावः-स्ववर्त्तनम् , नेमे वर्तन्तेऽन्यतः, किन्तु स्वयमेव, तस्माद् अनादिनिधना इति । प्रत्येकं वाऽऽयोज्यमेतत् ‘तथा तथे 'ति । द्विर्वचनं तु प्रतिक्षणं वर्तनयुक्तताज्ञापनाय । यद्वा-अन्योन्यपरिणामाभावज्ञापनाय ' तथा तथे 'ति । सर्वदा सर्वेषामेव स्वस्वभावेन वर्त्तनं पर्यायापेक्षयोपि वृत्तिताज्ञापनायैव व्याख्यायमानत्वात् नाविशेषः । अथ पञ्चानामध्येषां सर्वथा नित्यत्वे स्युरेवाप्रतिहता अनेके दोषाः, नचाभ्युपगताः सूरिभिः । यत उच्यते... 'य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिनशासनं ते ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥ जीवानाश्रित्य च-सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥ तथा च-यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नव तथा दोषोऽस्ति कश्चन ॥ [ कीतराग० ] इति क्चनादित्याहुः कथञ्चित् पर्यायापेक्षयाऽनित्यत्वज्ञापनाय वर्तनमप्येतेषाम् ।
For Private And Personal Use Only