________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
'नवरं वटुंति कज्जकारणभावेण'त्ति । तत्र 'नवरंति विशेषः को वक्ष्यमाणः । अनेन ज्ञापयन्ति व्यवस्थितमर्यादामेषामाचार्याः । ज्ञापयिष्यते साऽग्रतः वर्तन्ते-वर्तमानावस्थतामनुभवन्ति । वर्तमाननिर्देशश्च धातोः सम्बन्धे प्रत्ययाः' [५।४।४१] इति सूत्रेण त्रिकालविषयतायामप्यविरुद्धो ज्ञेयः । यद्वा-अनुभूतवर्तनापरिणामस्यातीतत्वाद् , अनुभविष्यद्वर्त्तमानतापरिणामस्य भविष्यत्वात् , साम्प्रतस्यानुभवस्य वर्तमानत्वाद् , वर्तमानताविनाभाविनी वर्त्तना त्रिकालिक्यपीति सुदूरमवमत्योचुः ‘वतन्त' इति । उच्यते च प्रयोगज्ञैः-बभूव भवति भविष्यति वा सुमेरुः । यद्वा-त्रिकालगोचरतां ज्ञापनायैव एषामेवं व्यपदेशो दृश्यते चार्षे ऽपि-'नो कप्पई 'त्यादिष्वयं न्यायः अनेन प्रतिक्षिप्तमेतत् यदुत-पूर्वमनादिनिधना इति प्रतिपाद्यास्तिकायात् कथं वर्तन्ते इत्यधुना प्रतिपादयन्ति, वर्तनाया वर्तमानत्वात् , तस्याश्च साविसान्तत्वाद् , अनादिनिधनत्व-सादि सान्तत्वयोश्व स्पष्ट एव विरोधः, प्रारब्धापरिसमाप्तक्रिया प्रबन्धस्यैव वर्त्तमानत्वात् , अनादिनिधनत्वं त्वप्रारब्धपरिसमाप्तक्रियाप्रबन्धत्व एवेति पातनिकयैव विवृतपूर्वत्वादेतत्समाधानस्य । द्रव्यपर्यायोभयात्मकत्वाद् वस्तुनः , पर्यायांपेक्षया प्रारब्धापरिसमाप्तत्वे सत्यपि द्रव्यापेक्षयाsप्रारब्धापरिसमाप्तत्वस्याविरुद्धत्वात् ।
एकस्मिन्नेव वस्तुनि उभयव्यपेक्षोभयव्यपदेशश्च एकस्यैव स्वरस्य हवदीर्घादिभेदेन, एकस्यैव नरस्य स्वपितृपुत्रापेक्षया पुत्रत्वपितृत्वादिभेदेन, पीयमानं मधु मदयतीत्यत्रैकस्यैव मधुपदस्य पानापेक्षया कर्मत्वेन मादनापेक्षया कर्तृत्वेनाभीप्सतां वावदूकानां न कथञ्चिदपि विरोधमधिरोहति । अत एवोच्यत आर्ष-'सर्वव्यक्तिषु नियतं
For Private And Personal Use Only