________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
लोकविंशिका क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।। एकान्तनित्यानित्यवादपराकरणमप्येवमेव । तथा चोच्यते परमर्षिभिः- नान्वयः स हि भेदत्वान् न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ॥११॥ इति । अत एव च त्र्यात्मकं वस्तु प्रतिपाद्यतेऽकलङ्कज्ञाननिधिपरमेश्वरप्रतिपादितकषछेदतापशुद्धवचनानुसारिभिः यथा- तेनोत्पादव्ययस्थैर्य सम्भिन्न गोरसादिवत् । त्वदुपझं कृतधियः प्रपन्ना वस्तुतस्तु सत्' ।। गोरसादिसदृशता चैवं यथा-' उत्पन्नं दधिभावेन विनष्टं क्षीरभावतः । स्थितं गोरसभावेन तस्माद्वस्तु त्रयात्मकम् ' । आदिशब्दाच्च-पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसवतश्चोभे तस्माद्वस्तु त्रयात्मकम् ।। घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ इत्यादिग्रहः । घटविनाशस्यैव कपालोत्पत्त्यर्थकत्वात् नोत्पादविनाशयो देन सर्वथा विसंस्थुलयितव्यमेतत् , न चैकतमाभ्युपगमे वस्तुस्वरूपं यथास्थं निर्वहति, व्यवहारादिरपि च सिद्धयत्येवमेवेत्यलं प्रसङ्गेन ।
साभिप्रायं च क्रियापदमिदं 'वर्तन्त' इति । तथा च स्वस्वभावत एव वक्ष्यमाणरीत्या वर्तन्ते ते, न केनापीश्वरादिना वय॑न्ते इति; अदृष्टेऽपि तत्कल्पनेऽतिप्रसङ्गात् । न च वाच्यमुक्तमेव यद् दृश्यमानकारणकलापसमुद्भवमपि कार्यवृन्दं किञ्चिदपि कस्यापि भोगसाधनमिति कल्प्यते यथा तत्तदृष्टकारितमिति, न च दृश्यते तत्, न चाभ्युपगम्यते प्रत्यक्षादिविरोधस्तत्रेति चेत् । सस्यमुक्तमयुक्तं तूक्तम् , यता दृश्यमानकारणानां सादृश्येऽपि कार्याणां वैचित्र्यं यद् दृश्यते, तत्र स्वीकार्यमेव कारणं तथाविधं किञ्चिद् यत् स्याद्वैचित्र्यनिबन्धनम् ।
For Private And Personal Use Only