________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकपिंशिका
तिरेव, स्वीक्रियते च सा तस्येति कथं बन्धाभावः । इदमैदम्पर्यम्वस्त्रपत्रयोर्जलसंयोगेऽप्युभयत्र परुषत्वानुपलम्भात् कचिज्जलसंयोगे परुषत्वं हेतुः मृदुतायामदर्शनाद् वस्त्रस्वभावस्तादृशः कल्प्यते यजलसंयोगे तस्य पारुष्यं कारणं नेतरस्य, अतथात्वात् । अत्र च सर्वत्र रागादिपरिणतेरेव बन्धकारणत्वेन स्वीकारान्न स्वभावशरणं वादत्राणशरणम् । अन्वयव्यतिरेकाभ्यां च स्वीक्रियत एव च रागपरिणतेरेव बन्धकारणत्वमिति नानभ्युपगतमिदम् ।
एतेणं पडिसिद्धा विसजलादीवि हंदि दिठंता । जं णत्थऽविसेसेणं सव्वत्थ विसेसहेउत्ति ।।२३।। अविशेषेण-सर्वसहचार्यनुगतत्वेनेति । 'विसेसहेउत्ति सोपक्रमायुष्कत्वादि । एतदेव दर्शयन्ति
सोवकमादि डझादि चेव सव्वत्थ अतिपसंगाओ । ण य सत्तामेसेणं इट्ठत्थपसाहगा ते वि ।।२४।। आद्यादिशब्देन मन्त्रासंस्कृतादिग्रहः। द्वितीयेन तु तेन शुष्कत्वपवनादिसहचारित्वादिग्रहः । अन्यथा विषं विषं मारयेत् , दहेचाग्निमग्निः, सर्व वौषधोपयुक्ताद्यपि मारयेत् , जलमपि च ज्वालयेदित्यतिप्रसङ्गो विशेषानभ्युपगमे । बन्धे विशेषहेतुमाहुः___ रागादिपरिणती पुण परुसत्तसमा विसेसहेउ त्ति । अप्पाणे तमि य जओ ( अप्पाणगंमि य जओ) वेहम्मं तेण दोण्हंपि ॥२५।। परुषत्वं यथा जललेपकारणं तथाऽत्र विधातर्यन्यस्मिँश्चात्मनि रागपरिणतिबन्धकारणं सममेव । यदि च सत्यपि रागादौ न बन्ध इति वैधय॒णाभ्युपगमः , तदा न द्वयोरपि स्याद्वन्धः ।
For Private And Personal Use Only