Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका 'नवरं वटुंति कज्जकारणभावेण'त्ति । तत्र 'नवरंति विशेषः को वक्ष्यमाणः । अनेन ज्ञापयन्ति व्यवस्थितमर्यादामेषामाचार्याः । ज्ञापयिष्यते साऽग्रतः वर्तन्ते-वर्तमानावस्थतामनुभवन्ति । वर्तमाननिर्देशश्च धातोः सम्बन्धे प्रत्ययाः' [५।४।४१] इति सूत्रेण त्रिकालविषयतायामप्यविरुद्धो ज्ञेयः । यद्वा-अनुभूतवर्तनापरिणामस्यातीतत्वाद् , अनुभविष्यद्वर्त्तमानतापरिणामस्य भविष्यत्वात् , साम्प्रतस्यानुभवस्य वर्तमानत्वाद् , वर्तमानताविनाभाविनी वर्त्तना त्रिकालिक्यपीति सुदूरमवमत्योचुः ‘वतन्त' इति । उच्यते च प्रयोगज्ञैः-बभूव भवति भविष्यति वा सुमेरुः । यद्वा-त्रिकालगोचरतां ज्ञापनायैव एषामेवं व्यपदेशो दृश्यते चार्षे ऽपि-'नो कप्पई 'त्यादिष्वयं न्यायः अनेन प्रतिक्षिप्तमेतत् यदुत-पूर्वमनादिनिधना इति प्रतिपाद्यास्तिकायात् कथं वर्तन्ते इत्यधुना प्रतिपादयन्ति, वर्तनाया वर्तमानत्वात् , तस्याश्च साविसान्तत्वाद् , अनादिनिधनत्व-सादि सान्तत्वयोश्व स्पष्ट एव विरोधः, प्रारब्धापरिसमाप्तक्रिया प्रबन्धस्यैव वर्त्तमानत्वात् , अनादिनिधनत्वं त्वप्रारब्धपरिसमाप्तक्रियाप्रबन्धत्व एवेति पातनिकयैव विवृतपूर्वत्वादेतत्समाधानस्य । द्रव्यपर्यायोभयात्मकत्वाद् वस्तुनः , पर्यायांपेक्षया प्रारब्धापरिसमाप्तत्वे सत्यपि द्रव्यापेक्षयाsप्रारब्धापरिसमाप्तत्वस्याविरुद्धत्वात् । एकस्मिन्नेव वस्तुनि उभयव्यपेक्षोभयव्यपदेशश्च एकस्यैव स्वरस्य हवदीर्घादिभेदेन, एकस्यैव नरस्य स्वपितृपुत्रापेक्षया पुत्रत्वपितृत्वादिभेदेन, पीयमानं मधु मदयतीत्यत्रैकस्यैव मधुपदस्य पानापेक्षया कर्मत्वेन मादनापेक्षया कर्तृत्वेनाभीप्सतां वावदूकानां न कथञ्चिदपि विरोधमधिरोहति । अत एवोच्यत आर्ष-'सर्वव्यक्तिषु नियतं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256